वैशम्पायन उवाच 001
तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् 001a
विश्वस्तानिव सल्लक्ष्य हर्षं चक्रे पुरोचनः 001c
पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः 002a
भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित् 002c
अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः 003a
वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने 003c
आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् 004a
षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः 004c
अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् 005a
चक्रे निशि महद्राजन्नाजग्मुस्तत्र योषितः 005c
ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत 006a
जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम् 006c
निषादी पञ्चपुत्रा तु तस्मिन्भोज्ये यदृच्छया 007a
अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता 007c
सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला 008a
सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने 008c
सुष्वाप विगतज्ञाना मृतकल्पा नराधिप 008e
अथ प्रवाते तुमुले निशि सुप्ते जने विभो 009a
तदुपादीपयद्भीमः शेते यत्र पुरोचनः 009c
ततः प्रतापः सुमहाञ्शब्दश्चैव विभावसोः 010a
प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः 010c
पौरा ऊचुः 011
दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना 011a
गृहमात्मविनाशाय कारितं दाहितं च यत् 011c
अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी 012a
यः शुचीन्पाण्डवान्बालान्दाहयामास मन्त्रिणा 012c
दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः 013a
अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् 013c
वैशम्पायन उवाच 014
एवं ते विलपन्ति स्म वारणावतका जनाः 014a
परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः 014c
पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः 015a
बिलेन तेन निर्गत्य जग्मुर्गूढमलक्षिताः 015c
तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः 016a
न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः 016c
भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः 017a
जगाम भ्रातॄनादाय सर्वान्मातरमेव च 017c
स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् 018a
पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ 018c
तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् 019a
स जगामाशु तेजस्वी वातरंहा वृकोदरः 019c