वैशम्पायन उवाच 001
विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित् 001a
विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् 001c
प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् 002a
पाण्डवानां प्रियं कार्यमिति किं करवाणि वः 002c
प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिह पाण्डवान् 003a
प्रतिपादय विश्वासादिति किं करवाणि वः 003c
कृष्णपक्षे चतुर्दश्यां रात्रावस्य पुरोचनः 004a
भवनस्य तव द्वारि प्रदास्यति हुताशनम् 004c
मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः 005a
इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम् 005c
किञ्चिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव 006a
त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् 006c
उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः 007a
अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै 007c
शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम् 008a
न विद्यते कवेः किञ्चिदभिज्ञानप्रयोजनम् 008c
यथा नः स तथा नस्त्वं निर्विशेषा वयं त्वयि 009a
भवतः स्म यथा तस्य पालयास्मान्यथा कविः 009c
इदं शरणमाग्नेयं मदर्थमिति मे मतिः 010a
पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् 010c
स पापः कोशवांश्चैव ससहायश्च दुर्मतिः 011a
अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते 011c
स भवान्मोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् 012a
अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः 012c
समृद्धमायुधागारमिदं तस्य दुरात्मनः 013a
वप्रान्ते निष्प्रतीकारमाश्लिष्येदं कृतं महत् 013c
इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् 014a
प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् 014c
सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा 015a
पुरोचनस्याविदितानस्मांस्त्वं विप्रमोचय 015c
स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः 016a
परिखामुत्किरन्नाम चकार सुमहद्बिलम् 016c
चक्रे च वेश्मनस्तस्य मध्ये नातिमहन्मुखम् 017a
कपाटयुक्तमज्ञातं समं भूम्या च भारत 017c
पुरोचनभयाच्चैव व्यदधात्संवृतं मुखम् 018a
स तत्र च गृहद्वारि वसत्यशुभधीः सदा 018c
तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप 019a
दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् 019c
विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् 020a
अतुष्टास्तुष्टवद्राजन्नूषुः परमदुःखिताः 020c
न चैनानन्वबुध्यन्त नरा नगरवासिनः 021a
अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात् 021c