001 वैशम्पायन उवाच
ततः सर्वाः प्रकृतयो नगराद्वारणावतात् 001a
सर्वमङ्गलसम्युक्ता यथाशास्त्रमतन्द्रिताः 001c
श्रुत्वागतान्पाण्डुपुत्रान्नानायानैः सहस्रशः 002a
अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा 002c
ते समासाद्य कौन्तेयान्वारणावतका जनाः 003a
कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे 003c
तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः 004a
विबभौ देवसङ्काशो वज्रपाणिरिवामरैः 004c
सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः 005a
अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम् 005c
ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् 006a
ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु 006c
नगराधिकृतानां च गृहाणि रथिनां तथा 007a
उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि 007c
अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः 008a
जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः 008c
तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च 009a
आसनानि च मुख्यानि प्रददौ स पुरोचनः 009c
तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः 010a
उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः 010c
दशरात्रोषितानां तु तत्र तेषां पुरोचनः 011a
निवेदयामास गृहं शिवाख्यमशिवं तदा 011c
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः 012a
पुरोचनस्य वचनात्कैलासमिव गुह्यकाः 012c
तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः 013a
उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः 013c
013e जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम्
कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप 014a
शणसर्जरसं व्यक्तमानीतं गृहकर्मणि 014c
014e मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम्
शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि 015a
विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः 015c
इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा 016a
आपदं तेन मां पार्थ स सम्बोधितवान्पुरा 016c
ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम् 017a
आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः 017c
018 भीम उवाच
यदिदं गृहमाग्नेयं विहितं मन्यते भवान् 018a
तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् 018c
019 युधिष्ठिर उवाच
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये 019a
नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः 019c
यदि विन्देत चाकारमस्माकं हि पुरोचनः 020a
शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः 020c
नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः 021a
तथा हि वर्तते मन्दः सुयोधनमते स्थितः 021c
अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः 022a
कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः 022c
022e धर्म इत्येव कुप्येत तथान्ये कुरुपुङ्गवाः
वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि 023a
स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः 023c
अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः 024a
हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् 024c
तदस्माभिरिमं पापं तं च पापं सुयोधनम् 025a
वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित् 025c
ते वयं मृगयाशीलाश्चराम वसुधामिमाम् 026a
तथा नो विदिता मार्गा भविष्यन्ति पलायताम् 026c
भौमं च बिलमद्यैव करवाम सुसंवृतम् 027a
गूढोच्छ्वसान्न नस्तत्र हुताशः सम्प्रधक्ष्यति 027c
वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः 028a
पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः 028c