वैशम्पायन उवाच 001
पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः 001a
आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत् 001c
राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः 002a
अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च 002c
एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः 003a
समालिङ्ग्य समानांश्च बालैश्चाप्यभिवादिताः 003c
सर्वा मातॄस्तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम् 004a
सर्वाः प्रकृतयश्चैव प्रययुर्वारणावतम् 004c
विदुरश्च महाप्राज्ञस्तथान्ये कुरुपुङ्गवाः 005a
पौराश्च पुरुषव्याघ्रानन्वयुः शोककर्शिताः 005c
तत्र केच्चिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा 006a
शोचमानाः पाण्डुपुत्रानतीव भरतर्षभ 006c
विषमं पश्यते राजा सर्वथा तमसावृतः 007a
धृतराष्ट्रः सुदुर्बुद्धिर्न च धर्मं प्रपश्यति 007c
न हि पापमपापात्मा रोचयिष्यति पाण्डवः 008a
भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः 008c
कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः 008e
तद्राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते 009a
अधर्ममखिलं किं नु भीष्मोऽयमनुमन्यते 009c
विवास्यमानानस्थाने कौन्तेयान्भरतर्षभान् 009e
पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा 010a
विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः 010c
स तस्मिन्पुरुषव्याघ्रे दिष्टभावं गते सति 011a
राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यते 011c
वयमेतदमृष्यन्तः सर्व एव पुरोत्तमात् 012a
गृहान्विहाय गच्छामो यत्र याति युधिष्ठिरः 012c
तांस्तथावादिनः पौरान्दुःखितान्दुःखकर्शितः 013a
उवाच परमप्रीतो धर्मराजो युधिष्ठिरः 013c
पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः 014a
अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् 014c
भवन्तः सुहृदोऽस्माकमस्मान्कृत्वा प्रदक्षिणम् 015a
आशीर्भिरभिनन्द्यास्मान्निवर्तध्वं यथागृहम् 015c
यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते 016a
तदा करिष्यथ मम प्रियाणि च हितानि च 016c
ते तथेति प्रतिज्ञाय कृत्वा चैतान्प्रदक्षिणम् 017a
आशीर्भिरभिनन्द्यैनाञ्जग्मुर्नगरमेव हि 017c
पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित् 018a
बोधयन्पाण्डवश्रेष्ठमिदं वचनमब्रवीत् 018c
प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग्धर्मार्थदर्शिवान् 018e
विज्ञायेदं तथा कुर्यादापदं निस्तरेद्यथा 019a
अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् 019c
यो वेत्ति न तमाघ्नन्ति प्रतिघातविदं द्विषः 019e
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः 020a
न दहेदिति चात्मानं यो रक्षति स जीवति 020c
नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः 021a
नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः 021c
अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् 022a
श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् 022c
चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः 023a
आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते 023c
अनुशिष्ट्वानुगत्वा च कृत्वा चैनान्प्रदक्षिणम् 024a
पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् 024c
निवृत्ते विदुरे चैव भीष्मे पौरजने तथा 025a
अजातशत्रुमामन्त्र्य कुन्ती वचनमब्रवीत् 025c
क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव 026a
त्वया च तत्तथेत्युक्तो जानीमो न च तद्वयम् 026c
यदि तच्छक्यमस्माभिः श्रोतुं न च सदोषवत् 027a
श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च 027c
युधिष्ठिर उवाच 028
विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत् 028a
पन्थाश्च वो नाविदितः कश्चित्स्यादिति चाब्रवीत् 028c
जितेन्द्रियश्च वसुधां प्राप्स्यसीति च माब्रवीत् 029a
विज्ञातमिति तत्सर्वमित्युक्तो विदुरो मया 029c
वैशम्पायन उवाच 030
अष्टमेऽहनि रोहिण्यां प्रयाताः फल्गुनस्य ते 030a
वारणावतमासाद्य ददृशुर्नागरं जनम् 030c