वैशम्पायन उवाच 001
एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु 001a
दुर्योधनः परं हर्षमाजगाम दुरात्मवान् 001c
स पुरोचनमेकान्तमानीय भरतर्षभ 002a
गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् 002c
ममेयं वसुसम्पूर्णा पुरोचन वसुन्धरा 003a
यथेयं मम तद्वत्ते स तां रक्षितुमर्हसि 003c
न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वया 004a
सहायो येन सन्धाय मन्त्रयेयं यथा त्वया 004c
संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर 005a
निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु 005c
पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् 006a
उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् 006c
स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना 007a
वारणावतमद्यैव यथा यासि तथा कुरु 007c
तत्र गत्वा चतुःशालं गृहं परमसंवृतम् 008a
आयुधागारमाश्रित्य कारयेथा महाधनम् 008c
शणसर्जरसादीनि यानि द्रव्याणि कानिचित् 009a
आग्नेयान्युत सन्तीह तानि सर्वाणि दापय 009c
सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया 010a
मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः 010c
शणान्वंशं घृतं दारु यन्त्राणि विविधानि च 011a
तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः 011c
यथा च त्वां न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः 012a
आग्नेयमिति तत्कार्यमिति चान्ये च मानवाः 012c
वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् 013a
वासयेः पाण्डवेयांश्च कुन्तीं च ससुहृज्जनाम् 013c
तत्रासनानि मुख्यानि यानानि शयनानि च 014a
विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता 014c
यथा रमेरन्विश्रब्धा नगरे वारणावते 015a
तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः 015c
ज्ञात्वा तु तान्सुविश्वस्ताञ्शयानानकुतोभयान् 016a
अग्निस्ततस्त्वया देयो द्वारतस्तस्य वेश्मनः 016c
दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः 017a
ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हिचित् 017c
तत्तथेति प्रतिज्ञाय कौरवाय पुरोचनः 018a
प्रायाद्रासभयुक्तेन नगरं वारणावतम् 018c
स गत्वा त्वरितो राजन्दुर्योधनमते स्थितः 019a
यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः 019c