वैशम्पायन उवाच 001
ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः 001a
अर्थमानप्रदानाभ्यां सञ्जहार सहानुजः 001c
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः 002a
कथयाञ्चक्रिरे रम्यं नगरं वारणावतम् 002c
अयं समाजः सुमहान्रमणीयतमो भुवि 003a
उपस्थितः पशुपतेर्नगरे वारणावते 003c
सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे 004a
इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः 004c
कथ्यमाने तथा रम्ये नगरे वारणावते 005a
गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप 005c
यदा त्वमन्यत नृपो जातकौतूहला इति 006a
उवाचैनानथ तदा पाण्डवानम्बिकासुतः 006c
ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः 007a
रमणीयतरं लोके नगरं वारणावतम् 007c
ते तात यदि मन्यध्वमुत्सवं वारणावते 008a
सगणाः सानुयात्राश्च विहरध्वं यथामराः 008c
ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः 009a
प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः 009c
कञ्चित्कालं विहृत्यैवमनुभूय परां मुदम् 010a
इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ 010c
धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः 011a
आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् 011c
ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् 012a
द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् 012c
कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम् 013a
युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा 013c
रमणीये जनाकीर्णे नगरे वारणावते 014a
सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात् 014c
प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत 015a
आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति 015c
एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः 016a
प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान् 016c
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः 017a
मा च वोऽस्त्वशुभं किञ्चित्सर्वतः पाण्डुनन्दनाः 017c
ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः 018a
कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् 018c