वैशम्पायन उवाच 001
धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् 001a
मुहूर्तमिव सञ्चिन्त्य दुर्योधनमथाब्रवीत् 001c
धर्मनित्यः सदा पाण्डुर्ममासीत्प्रियकृद्धितः 002a
सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः 002c
नास्य किञ्चिन्न जानामि भोजनादि चिकीर्षितम् 003a
निवेदयति नित्यं हि मम राज्यं धृतव्रतः 003c
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः 004a
गुणवाल्ँलोकविख्यातः पौराणां च सुसम्मतः 004c
स कथं शक्यमस्माभिरपक्रष्टुं बलादितः 005a
पितृपैतामहाद्राज्यात्ससहायो विशेषतः 005c
भृता हि पाण्डुनामात्या बलं च सततं भृतम् 006a
भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः 006c
ते पुरा सत्कृतास्तात पाण्डुना पौरवा जनाः 007a
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् 007c
दुर्योधन उवाच 008
एवमेतन्मया तात भावितं दोषमात्मनि 008a
दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः 008c
ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः 009a
अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते 009c
स भवान्पाण्डवानाशु विवासयितुमर्हति 010a
मृदुनैवाभ्युपायेन नगरं वारणावतम् 010c
यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति 011a
तदा कुन्ती सहापत्या पुनरेष्यति भारत 011c
धृतराष्ट्र उवाच 012
दुर्योधन ममाप्येतद्धृदि सम्परिवर्तते 012a
अभिप्रायस्य पापत्वान्नैतत्तु विवृणोम्यहम् 012c
न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः 013a
विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित् 013c
समा हि कौरवेयाणां वयमेते च पुत्रक 014a
नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः 014c
ते वयं कौरवेयाणामेतेषां च महात्मनाम् 015a
कथं न वध्यतां तात गच्छेम जगतस्तथा 015c
दुर्योधन उवाच 016
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः 016a
यतः पुत्रस्ततो द्रोणो भविता नात्र सांशयः 016c
कृपः शारद्वतश्चैव यत एते त्रयस्ततः 017a
द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित् 017c
क्षत्तार्थबद्धस्त्वस्माकं प्रच्छन्नं तु यतः परे 018a
न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम् 018c
स विश्रब्धः पाण्डुपुत्रान्सह मात्रा विवासय 019a
वारणावतमद्यैव नात्र दोषो भविष्यति 019c
विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम् 020a
शोकपावकमुद्भूतं कर्मणैतेन नाशय 020c