वैशम्पायन उवाच 001
प्राणाधिकं भीमसेनं कृतविद्यं धनन्जयम् 001a
दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः 001c
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः 002a
अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् 002c
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिन्दमाः 003a
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः 003c
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा 004a
कथयन्ति स्म सम्भूय चत्वरेषु सभासु च 004c
प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः 005a
राज्यमप्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् 005c
तथा भीष्मः शान्तनवः सत्यसन्धो महाव्रतः 006a
प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति 006c
ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् 007a
अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम् 007c
स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् 008a
सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् 008c
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् 009a
युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः 009c
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे 010a
ईर्ष्यया चाभिसन्तप्तो धृतराष्ट्रमुपागमत् 010c
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः 011a
पौरानुरागसन्तप्तः पश्चादिदमभाषत 011c
श्रुता मे जल्पतां तात पौराणामशिवा गिरः 012a
त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् 012c
मतमेतच्च भीष्मस्य न स राज्यं बुभूषति 013a
अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः 013c
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा 014a
त्वमप्यगुणसम्योगात्प्राप्तं राज्यं न लब्धवान् 014c
स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः 015a
तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः 015c
ते वयं राजवंशेन हीनाः सह सुतैरपि 016a
अवज्ञाता भविष्यामो लोकस्य जगतीपते 016c
सततं निरयं प्राप्ताः परपिण्डोपजीविनः 017a
न भवेम यथा राजन्स्तथा शीघ्रं विधीयताम् 017c
अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप 018a
ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने 018c