वैशम्पायन उवाच 001
ततः शिष्यान्समानीय आचार्यार्थमचोदयत् 001a
द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते 001c
पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि 002a
पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा 002c
तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः 003a
आचार्यधनदानार्थं द्रोणेन सहिता ययुः 003c
ततोऽभिजग्मुः पाञ्चालान्निघ्नन्तस्ते नरर्षभाः 004a
ममृदुस्तस्य नगरं द्रुपदस्य महौजसः 004c
ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि 005a
उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः 005c
भग्नदर्पं हृतधनं तथा च वशमागतम् 006a
स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् 006c
प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया 007a
प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते 007c
एवमुक्त्वा प्रहस्यैनं निश्चित्य पुनरब्रवीत् 008a
मा भैः प्राणभयाद्राजन्क्षमिणो ब्राह्मणा वयम् 008c
आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह 009a
तेन संवर्धितः स्नेहस्त्वया मे क्षत्रियर्षभ 009c
प्रार्थयेयं त्वया सख्यं पुनरेव नरर्षभ 010a
वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि 010c
अराजा किल नो राज्ञां सखा भवितुमर्हति 011a
अतः प्रयतितं राज्ये यज्ञसेन मया तव 011c
राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे 012a
सखायं मां विजानीहि पाञ्चाल यदि मन्यसे 012c
द्रुपद उवाच 013
अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु 013a
प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् 013c
वैशम्पायन उवाच 014
एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत 014a
सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् 014c
माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् 015a
सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् 015c
दक्षिणान्श्चैव पाञ्चालान्यावच्चर्मण्वती नदी 015e
द्रोणेन वैरं द्रुपदः संस्मरन्न शशाम ह 016a
क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् 016c
हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च 017a
पुत्रजन्म परीप्सन्वै स राजा तदधारयत् 017c
अहिच्छत्रं च विषयं द्रोणः समभिपद्यत 017e
एवं राजन्नहिच्छत्रा पुरी जनपदायुता 018a
युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता 018c