वैशम्पायन उवाच 001
ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः 001a
विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव 001c
तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः 002a
कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत 002c
ततः पादाववच्छाद्य पटान्तेन ससम्भ्रमः 003a
पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः 003c
परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः 004a
अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः 004c
तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः 005a
भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव 005c
न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् 006a
कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया 006c
अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम 007a
श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे 007c
एवमुक्तस्ततः कर्णः किञ्चित्प्रस्फुरिताधरः 008a
गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत 008c
ततो दुर्योधनः कोपादुत्पपात महाबलः 009a
भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः 009c
सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् 010a
वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् 010c
क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना 011a
शूराणां च नदीनां च प्रभवा दुर्विदाः किल 011c
सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् 012a
दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् 012c
आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि 013a
श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः 013c
क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः 014a
आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः 014c
भवतां च यथा जन्म तदप्यागमितं नृपैः 014e
सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् 015a
कथमादित्यसङ्काशं मृगी व्याघ्रं जनिष्यति 015c
पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः 016a
अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना 016c
यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् 017a
रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् 017c
ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् 018a
साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत् 018c
ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप 019a
दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ 019c
पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते 020a
भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् 020c
अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत 021a
कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा 021c
कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् 022a
पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत 022c
दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव 023a
भयमर्जुनसञ्जातं क्षिप्रमन्तरधीयत 023c
स चापि वीरः कृतशस्त्रनिश्रमः परेण साम्नाभ्यवदत्सुयोधनम् 024a
युधिष्ठिरस्याप्यभवत्तदा मतिर्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ 024c