वैशम्पायन उवाच 001
दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः 001a
विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः 001c
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः 002a
सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः 002c
कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः 003a
तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः 003c
सिंहर्षभगजेन्द्राणां तुल्यवीर्यपराक्रमः 004a
दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः 004c
प्रांशुः कनकतालाभः सिंहसंहननो युवा 005a
असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसम्भवः 005c
स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम् 006a
प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत् 006c
स सामाजजनः सर्वो निश्चलः स्थिरलोचनः 007a
कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत् 007c
सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः 008a
भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् 008c
पार्थ यत्ते कृतं कर्म विशेषवदहं ततः 009a
करिष्ये पश्यतां नॄणां मात्मना विस्मयं गमः 009c
असमाप्ते ततस्तस्य वचने वदतां वर 010a
यन्त्रोत्क्षिप्त इव क्षिप्रमुत्तस्थौ सर्वतो जनः 010c
प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत् 011a
ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वविशच्च ह 011c
ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा 012a
यत्कृतं तत्र पार्थेन तच्चकार महाबलः 012c
अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत 013a
कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् 013c
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद 014a
अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् 014c
कर्ण उवाच 015
कृतं सर्वेण मेऽन्येन सखित्वं च त्वया वृणे 015a
द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छामि भारत 015c
दुर्योधन उवाच 016
भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव 016a
दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिन्दम 016c
वैशम्पायन उवाच 017
ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत 017a
कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् 017c
अनाहूतोपसृप्तानामनाहूतोपजल्पिनाम् 018a
ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे 018c
कर्ण उवाच 019
रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन 019a
वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते 019c
किं क्षेपैर्दुर्बलाश्वासैः शरैः कथय भारत 020a
गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः 020c
वैशम्पायन उवाच 021
ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरञ्जयः 021a
भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् 021c
ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः 022a
परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः 022c
ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोजवैः 023a
आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः 023c
ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् 024a
भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान् 024c
मेघच्छायोपगूढस्तु ततोऽदृश्यत पाण्डवः 025a
सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत 025c
धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः 026a
भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् 026c
द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत 027a
कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह 027c
तां तथा मोहसम्पन्नां विदुरः सर्वधर्मवित् 028a
कुन्तीमाश्वासयामास प्रोक्ष्याद्भिश्चन्दनोक्षितैः 028c
ततः प्रत्यागतप्राणा तावुभावपि दंशितौ 029a
पुत्रौ दृष्ट्वा सुसन्तप्ता नान्वपद्यत किञ्चन 029c
तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् 030a
द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् 030c
अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः 031a
कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति 031c
त्वमप्येवं महाबाहो मातरं पितरं कुलम् 032a
कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः 032c
ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा 032e
एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् 033a
बभौ वर्षाम्बुभिः क्लिन्नं पद्ममागलितं यथा 033c
दुर्योधन उवाच 034
आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये 034a
तत्कुलीनश्च शूरश्च सेनां यश्च प्रकर्षति 034c
यद्ययं फल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति 035a
तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते 035c
वैशम्पायन उवाच 036
ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः 036a
काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः 036c
अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः 036e
सच्छत्रवालव्यजनो जयशब्दान्तरेण च 037a
उवाच कौरवं राजा राजानं तं वृषस्तदा 037c
अस्य राज्यप्रदानस्य सदृशं किं ददानि ते 038a
प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप 038c
अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः 038e
एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत 039a
हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः 039c