वैशम्पायन उवाच 001
कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे 001a
पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः 001c
हा वीर कुरुराजेति हा भीमेति च नर्दताम् 002a
पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः 002c
ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् 003a
भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् 003c
वारयैतौ महावीर्यौ कृतयोग्यावुभावपि 004a
मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः 004c
ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ 005a
युगान्तानिलसङ्क्षुब्धौ महावेगाविवार्णवौ 005c
ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् 006a
निवार्य वादित्रगणं महामेघनिभस्वनम् 006c
यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः 007a
ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति 007c
आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा 008a
बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः 008c
काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः 009a
सार्कः सेन्द्रायुधतडित्ससन्ध्य इव तोयदः 009c
ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान् 010a
प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः 010c
एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः 011a
एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता 011c
एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः 012a
एष शीलवतां चापि शीलज्ञाननिधिः परः 012c
इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः 013a
कुन्त्याः प्रस्नवसम्मिश्रैरस्रैः क्लिन्नमुरोऽभवत् 013c
तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् 014a
धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः 014c
क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः 015a
सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् 015c
विदुर उवाच 016
एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः 016a
अवतीर्णः सकवचस्तत्रैष सुमहास्वनः 016c
धृतराष्ट्र उवाच 017
धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते 017a
पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः 017c
वैशम्पायन उवाच 018
तस्मिन्समुदिते रङ्गे कथञ्चित्पर्यवस्थिते 018a
दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् 018c
आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः 019a
वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान् 019c
भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन् 020a
अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् 020c
क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः 021a
क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् 021c
सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः 022a
सौष्ठवेनाभिसम्युक्तः सोऽविध्यद्विविधैः शरैः 022c
भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् 023a
पञ्च बाणानसंसक्तान्स मुमोचैकबाणवत् 023c
गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते 024a
निचखान महावीर्यः सायकानेकविंशतिम् 024c
इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् 025a
गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् 025c
ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत 026a
मन्दीभूते समाजे च वादित्रस्य च निस्वने 026c
द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः 027a
वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः 027c
दीर्यन्ते किं नु गिरयः किं स्विद्भूमिर्विदीर्यते 028a
किं स्विदापूर्यते व्योम जलभारघनैर्घनैः 028c
रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप 029a
द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा 029c
पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ 030a
पञ्चतारेण सम्युक्तः सावित्रेणेव चन्द्रमाः 030c
अश्वत्थाम्ना च सहितं भ्रातॄणां शतमूर्जितम् 031a
दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् 031c
स तैस्तदा भ्रातृभिरुद्यतायुधैर्वृतो गदापाणिरवस्थितैः स्थितः 032a
बभौ यथा दानवसङ्क्षये पुरा; पुरन्दरो देवगणैः समावृतः 032c