वैशम्पायन उवाच 001
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत 001a
दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् 001c
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः 002a
गाङ्गेयस्य च सान्निध्ये व्यासस्य विदुरस्य च 002c
राजन्सम्प्राप्तविद्यास्ते कुमराः कुरुसत्तम 003a
ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव 003c
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना 004a
भारद्वाज महत्कर्म कृतं ते द्विजसत्तम 004c
यदा तु मन्यसे कालं यस्मिन्देशे यथा यथा 005a
तथा तथा विधानाय स्वयमाज्ञापयस्व माम् 005c
स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम् 006a
अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् 006c
क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा 007a
न हीदृशं प्रियं मन्ये भविता धर्मवत्सल 007c
ततो राजानमामन्त्र्य विदुरानुगतो बहिः 008a
भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् 008c
समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम् 008e
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते 009a
अवघुष्टं पुरे चापि तदर्थं वदतां वर 009c
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि 010a
प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः 010c
राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ 010e
मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः 011a
विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः 011c
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा 012a
भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् 012c
मुक्ताजालपरिक्षिप्तं वैडूर्यमणिभूषितम् 013a
शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् 013c
गान्धारी च महाभागा कुन्ती च जयतां वर 014a
स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः 014c
हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा 014e
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् 015a
दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम् 015c
प्रवादितैश्च वादित्रैर्जनकौतूहलेन च 016a
महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा 016c
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् 017a
शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः 017c
रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह 018a
नभो जलधरैर्हीनं साङ्गारक इवांशुमान् 018c
स यथासमयं चक्रे बलिं बलवतां वरः 019a
ब्राह्मणांश्चात्र मन्त्रज्ञान्वाचयामास मङ्गलम् 019c
अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम् 020a
विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः 020c
ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः 021a
बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः 021c
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः 022a
चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् 022c
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे 023a
मनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः 023c
ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्कशोभितैः 024a
विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् 024c
तत्कुमारबलं तत्र गृहीतशरकार्मुकम् 025a
गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् 025c
सहसा चुक्रुशुस्तत्र नराः शतसहस्रशः 026a
विस्मयोत्फुल्लनयनाः साधु साध्विति भारत 026c
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् 027a
गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः 027c
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः 028a
त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु 028c
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् 029a
ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् 029c
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ 030a
अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ 030c
बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ 031a
बृंहन्तौ वाशिताहेतोः समदाविव कुञ्जरौ 031c
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ 032a
चेरतुर्निर्मलगदौ समदाविव गोवृषौ 032c
विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिः 033a
न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् 033c