वैशम्पायन उवाच 001
अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने 001a
अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् 001c
द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः 002a
अन्धकारेऽर्जुनायान्नं न देयं ते कथञ्चन 002c
ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने 003a
तेन तत्र प्रदीपः स दीप्यमानो निवापितः 003c
भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत 004a
हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात् 004c
तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः 004e
तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत 005a
उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् 005c
प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः 006a
त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते 006c
ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च 007a
अश्वेषु भूमावपि च रणशिक्षामशिक्षयत् 007c
गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु 008a
द्रोणः सङ्कीर्णयुद्धेषु शिक्षयामास पाण्डवम् 008c
तस्य तत्कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः 009a
राजानो राजपुत्राश्च समाजग्मुः सहस्रशः 009c
ततो निषादराजस्य हिरण्यधनुषः सुतः 010a
एकलव्यो महाराज द्रोणमभ्याजगाम ह 010c
न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् 011a
शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया 011c
स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः 012a
अरण्यमनुसम्प्राप्तः कृत्वा द्रोणं महीमयम् 012c
तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा 013a
इष्वस्त्रे योगमातस्थे परं नियममास्थितः 013c
परया श्रद्धया युक्तो योगेन परमेण च 014a
विमोक्षादानसन्धाने लघुत्वं परमाप सः 014c
अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः 015a
रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः 015c
तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया 016a
राजन्ननुजगामैकः श्वानमादाय पाण्डवान् 016c
तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम् 017a
श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान् 017c
स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने 018a
नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके 018c
तदा तस्याथ भषतः शुनः सप्त शरान्मुखे 019a
लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा 019c
स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह 020a
तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः 020c
लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा 021a
प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः 021c
तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् 022a
ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् 022c
न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् 023a
अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत 023c
एकलव्य उवाच 024
निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् 024a
द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम् 024c
वैशम्पायन उवाच 025
ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः 025a
यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम् 025c
कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् 026a
रहो द्रोणं समागम्य प्रणयादिदमब्रवीत् 026c
नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः 027a
भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति 027c
अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् 028a
अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः 028c
मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् 029a
सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् 029c
030a ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम्
030c एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान्
031a एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात्
031c अभिगम्योपसङ्गृह्य जगाम शिरसा महीम्
032a पूजयित्वा ततो द्रोणं विधिवत्स निषादजः
032c निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः
ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः 033a
033c यदि शिष्योऽसि मे तूर्णं वेतनं सम्प्रदीयताम्
034a एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम्
034c किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः
035a न हि किञ्चिददेयं मे गुरवे ब्रह्मवित्तम
035c तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतां मम
036a एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम्
036c प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा
037a तथैव हृष्टवदनस्तथैवादीनमानसः
037c छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः
038a ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत
038c न तथा स तु शीघ्रोऽभूद्यथा पूर्वं नराधिप
039a ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः
039c द्रोणश्च सत्यवागासीन्नान्योऽभ्यभवदर्जुनम्
040a द्रोणस्य तु तदा शिष्यौ गदायोग्यां विशेषतः
040c दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम्
041a अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत्
041c तथाति पुरुषानन्यान्त्सारुकौ यमजावुभौ
041e युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः
042a प्रथितः सागरान्तायां रथयूथपयूथपः
042c बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः
043a अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः
043c तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान्
043e एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः
044a प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम्
044c धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप
045a तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान्
045c द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ
046a कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम्
046c अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत्
047 द्रोण उवाच
047a शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः
047c भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः
048a मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम्
048c एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः
049 वैशम्पायन उवाच
049a ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः
049c सन्धत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च च
050a ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम्
050c तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः
051a ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम्
051c स मुहूर्तादुवाचेदं वचनं भरतर्षभ
052a पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज
052c पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः
053a स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत
053c अथ वृक्षमिमं मां वा भ्रातॄन्वापि प्रपश्यसि
054a तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम्
054c भवन्तं च तथा भ्रातॄन्भासं चेति पुनः पुनः
055a तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव
055c नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन्
056a ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः
056c तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत
057a अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान्
057c तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः
058a ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत
058c त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम्
059a मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः
059c वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम्
060a एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः
060c तस्थौ लक्ष्यं समुद्दिश्य गुरुवाक्यप्रचोदितः
061a मुहूर्तादिव तं द्रोणस्तथैव समभाषत
061c पश्यस्येनं स्थितं भासं द्रुमं मामपि वेत्युत
062a पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत
062c न तु वृक्षं भवन्तं वा पश्यामीति च भारत
063a ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः
063c प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम्
064a भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः
064c शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत्
065a अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः
065c मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन्
066a ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह
066c शिर उत्कृत्य तरसा पातयामास पाण्डवः
067a तस्मिन्कर्मणि संसिद्धे पर्यश्वजत फल्गुनम्
067c मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम्
068a कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः
068c जगाम गङ्गामभितो मज्जितुं भरतर्षभ
069a अवगाढमथो द्रोणं सलिले सलिलेचरः
069c ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः
070a स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत्
070c ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव
071a तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः
071c आवापैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत्
071e इतरे तु विसम्मूढास्तत्र तत्र प्रपेदिरे
072a तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम्
072c विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा
073a स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः
073c ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः
074a अथाब्रवीन्महात्मानं भारद्वाजो महारथम्
074c गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम्
074e अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम्
075a न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथञ्चन
075c जगद्विनिर्दहेदेतदल्पतेजसि पातितम्
076a असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते
076c तद्धारयेथाः प्रयतः शृणु चेदं वचो मम
077a बाधेतामानुषः शत्रुर्यदा त्वां वीर कश्चन
077c तद्वधाय प्रयुञ्जीथास्तदास्त्रमिदमाहवे
078a तथेति तत्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः
078c जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः
078e भविता त्वत्समो नान्यः पुमाल्ँलोके धनुर्धरः