वैशम्पायन उवाच 001
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् 001a
अब्रवीत्पार्षतं राजन्सखायं विद्धि मामिति 001c
द्रुपद उवाच 002
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी 002a
यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज 002c
न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित् 003a
सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः 003c
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम् 004a
सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् 004c
न सख्यमजरं लोके जातु दृश्येत कर्हिचित् 005a
कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति 005c
मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु 006a
आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् 006c
न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा 007a
शूरस्य न सखा क्लीबः सखिपूर्वं किमिष्यते 007c
ययोरेव समं वित्तं ययोरेव समं कुलम् 008a
तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः 008c
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा 009a
नाराज्ञा सङ्गतं राज्ञः सखिपूर्वं किमिष्यते 009c
वैशम्पायन उवाच 010
द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् 010a
मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः 010c
स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् 011a
जगाम कुरुमुख्यानां नगरं नागसाह्वयम् 011c
कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् 012a
क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा 012c
पपात कूपे सा वीटा तेषां वै क्रीडतां तदा 013a
न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये 013c
अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा 014a
प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् 014c
अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् 015a
भरतस्यान्वये जाता ये वीटां नाधिगच्छत 015c
एष मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रितः 016a
अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते 016c
वेत्स्यामीषीकया वीटां तामिषीकामथान्यया 017a
तामन्यया समायोगो वीटाया ग्रहणे मम 017c
तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः 018a
अवेष्क्य चोद्धृतां वीटां वीटावेद्धारमब्रुवन् 018c
अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते 019a
कोऽसि कं त्वाभिजानीमो वयं किं करवामहे 019c
द्रोण उवाच 020
आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् 020a
स एव सुमहाबुद्धिः साम्प्रतं प्रतिपत्स्यते 020c
वैशम्पायन उवाच 021
तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम् 021a
ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत् 021c
भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत 022a
युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च 022c
अथैनमानीय तदा स्वयमेव सुसत्कृतम् 023a
परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः 023c
हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत् 023e
महर्षेरग्निवेश्यस्य सकाशमहमच्युत 024a
अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया 024c
ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः 025a
अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया 025c
पाञ्चालराजपुत्रस्तु यज्ञसेनो महाबलः 026a
मया सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः 026c
स मे तत्र सखा चासीदुपकारी प्रियश्च मे 027a
तेनाहं सह सङ्गम्य रतवान्सुचिरं बत 027c
बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च 027e
स समासाद्य मां तत्र प्रियकारी प्रियंवदः 028a
अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् 028c
अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः 029a
अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा 029c
त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे 030a
मम भोगाश्च वित्तं च त्वदधीनं सुखानि च 030c
एवमुक्तः प्रवव्राज कृतास्त्रोऽहं धनेप्सया 031a
अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तयन् 031c
प्रियं सखायं सुप्रीतो राज्यस्थं पुनराव्रजम् 032a
संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत् 032c
ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो 033a
अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति 033c
उपस्थितं तु द्रुपदः सखिवच्चाभिसङ्गतम् 034a
स मां निराकारमिव प्रहसन्निदमब्रवीत् 034c
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी 035a
यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज 035c
न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित् 036a
सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः 036c
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा 037a
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते 037c
द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः 038a
अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः 038c
प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह 039a
पौत्रानादाय तान्सर्वान्वसूनि विविधानि च 039c
शिष्या इति ददौ राजन्द्रोणाय विधिपूर्वकम् 040a
स च शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् 040c
प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् 041a
रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा 041c
कार्यं मे काङ्क्षितं किञ्चिद्धृदि सम्परिवर्तते 042a
कृतास्त्रैस्तत्प्रदेयं मे तदृतं वदतानघाः 042c
तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशां पते 043a
अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तपः 043c
ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः 044a
प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा 044c
ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च 045a
ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् 045c
राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ 046a
अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् 046c
वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः 046e
सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा 047a
स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः 047c
दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत 047e