वैशम्पायन उवाच 001
विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया 001a
इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसम्मतान् 001c
नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः 002a
नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान् 002c
महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा 003a
ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः 003c
तस्या वायुः समुद्धूतो वसनं व्यपकर्षत 004a
ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे 004c
तस्मिन्समभवद्द्रोणः कलशे तस्य धीमतः 005a
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः 005c
अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् 006a
प्रत्यपादयदाग्नेयमस्त्रं धर्मभृतां वरः 006c
अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम 007a
भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् 007c
भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः 008a
तस्यापि द्रुपदो नाम तदा समभवत्सुतः 008c
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः 009a
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः 009c
ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् 010a
पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः 010c
भरद्वाजोऽपि भगवानारुरोह दिवं तदा 011a
ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः 011c
शारद्वतीं ततो द्रोणः कृपीं भार्यामविन्दत 011e
अग्निहोत्रे च धर्मे च दमे च सततं रता 012a
अलभद्गौतमी पुत्रमश्वत्थामानमेव च 012c
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः 013a
तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् 013c
अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् 014a
अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति 014c
सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् 015a
तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् 015c
स शुश्राव महात्मानं जामदग्न्यं परन्तपम् 016a
ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः 016c
वनं तु प्रस्थितं रामं भारद्वाजस्तदाब्रवीत् 017a
आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् 017c
राम उवाच 018
हिरण्यं मम यच्चान्यद्वसु किञ्चन विद्यते 018a
ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन 018c
तथैवेयं धरा देवी सागरान्ता सपत्तना 019a
कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी 019c
शरीरमात्रमेवाद्य मयेदमवशेषितम् 020a
अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च 020c
वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् 020e
द्रोण उवाच 021
अस्त्राणि मे समग्राणि ससंहाराणि भार्गव 021a
सप्रयोगरहस्यानि दातुमर्हस्यशेषतः 021c
वैशम्पायन उवाच 022
तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः 022a
सरहस्यव्रतं चैव धनुर्वेदमशेषतः 022c
प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः 023a
प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति 023c