0001 जनमेजय उवाच कृपस्यापि महाब्रह्मन्सम्भवं वक्तुमर्हसि 0001a
शरस्तम्भात्कथं जज्ञे कथं चास्त्राण्यवाप्तवान् 0001c
0002 वैशम्पायन उवाच महर्षेर्गौतमस्यासीच्छरद्वान्नाम नामतः 0002a
पुत्रः किल महाराज जातः सह शरैर्विभो 0002c
न तस्य वेदाध्ययने तथा बुद्धिरजायत 0003a
यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप 0003c
अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः 0004a
तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह 0004c
धनुर्वेदपरत्वाच्च तपसा विपुलेन च 0005a
भृशं सन्तापयामास देवराजं स गौतमः 0005c
ततो जालपदीं नाम देवकन्यां सुरेश्वरः 0006a
प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव 0006c
साभिगम्याश्रमपदं रमणीयं शरद्वतः 0007a
धनुर्बाणधरं बाला लोभयामास गौतमम् 0007c
तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने 0008a
लोकेऽप्रतिमसंस्थानामुत्फुल्लनयनोऽभवत् 0008c
धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि 0009a
वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत 0009c
स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात् 0010a
अवतस्थे महाप्राज्ञो धैर्येण परमेण ह 0010c
यस्त्वस्य सहसा राजन्विकारः समपद्यत 0011a
तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत 0011c
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः 0012a
जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह 0012c
शरस्तम्बे च पतितं द्विधा तदभवन्नृप 0013a
तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः 0013c
मृगयां चरतो राज्ञः शन्तनोस्तु यदृच्छया 0014a
कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत 0014c
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च 0015a
व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् 0015c
स राज्ञे दर्शयामास मिथुनं सशरं तदा 0015e
स तदादाय मिथुनं राजाथ कृपयान्वितः 0016a
आजगाम गृहानेव मम पुत्राविति ब्रुवन् 0016c
ततः संवर्धयामास संस्कारैश्चाप्ययोजयत् 0017a
गौतमोऽपि तदापेत्य धनुर्वेदपरोऽभवत् 0017c
कृपया यन्मया बालाविमौ संवर्धिताविति 0018a
तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः 0018c
निहितौ गौतमस्तत्र तपसा तावविन्दत 0019a
आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा 0019c
चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च 0020a
निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा 0020c
सोऽचिरेणैव कालेन परमाचार्यतां गतः 0020e
ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः 0021a
धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः 0021c
वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः 0021e