001 वैशम्पायन उवाच ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः 001a
ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा 001c
कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः 002a
रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि 002c
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् 003a
आदाय विविशुः पौराः पुरं वारणसाह्वयम् 003c
सततं स्मान्वतप्यन्त तमेव भरतर्षभम् 004a
पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् 004c
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् 005a
सम्मूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् 005c
अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः 006a
श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना 006c
बहुमायासमाकीर्णो नानादोषसमाकुलः 007a
लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति 007c
गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने 008a
मा द्रक्ष्यसि कुलस्यास्य घोरं सङ्क्षयमात्मनः 008c
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् 009a
अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः 009c
सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम् 009e
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् 010a
वनमादाय भद्रं ते गच्छावो यदि मन्यसे 010c
तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता 011a
वनं ययौ सत्यवती स्नुषाभ्यां सह भारत 011c
ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम 012a
देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा 012c
अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा 013a
अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि 013c
धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि 014a
बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् 014c
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे 015a
धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति 015c
हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने 016a
शिरस्सु च निगृह्यैनान्योधयामास पाण्डवः 016c
शतमेकोत्तरं तेषां कुमाराणां महौजसाम् 017a
एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः 017c
पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली 018a
चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् 018c
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः 019a
आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति 019c
फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा 020a
तदा पादप्रहारेण भीमः कम्पयते द्रुमम् 020c
प्रहारवेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः 021a
सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः 021c
न ते नियुद्धे न जवे न योग्यासु कदाचन 022a
कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् 022c
एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः 023a
अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा 023c
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् 024a
भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् 024c
तस्य धर्मादपेतस्य पापानि परिपश्यतः 025a
मोहादैश्वर्यलोभाच्च पापा मतिरजायत 025c
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः 026a
मध्यमः पाण्डुपुत्राणां निकृत्या सन्निहन्यताम् 026c
अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् 027a
प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम् 027c
एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा 028a
नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः 028c
ततो जलविहारार्थं कारयामास भारत 029a
चेलकम्बलवेश्मानि विचित्राणि महान्ति च 029c
प्रमाणकोट्यामुद्देशं स्थलं किञ्चिदुपेत्य च 030a
क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलङ्कृताः 030c
सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः 030e
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः 031a
विहारावसथेष्वेव वीरा वासमरोचयन् 031c
खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा 032a
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः 032c
प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् 032e
शीतं वासं समासाद्य श्रान्तो मदविमोहितः 033a
निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् 033c
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः 034a
गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् 034c
ततः प्रबुद्धः कौन्तेयः सर्वं सञ्छिद्य बन्धनम् 035a
उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः 035c
सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः 036a
कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु 036c
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः 037a
त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः 037c
प्रतिबुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत् 038a
सारथिं चास्य दयितमपहस्तेन जघ्निवान् 038c
भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम् 039a
कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् 039c
वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया 040a
तच्चापि भुक्त्वाजरयदविकारो वृकोदरः 040c
विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम् 041a
भीमसंहननो भीमस्तदप्यजरयत्ततः 041c
एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः 042a
अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् 042c
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिन्दमाः 043a
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः 043c