001 धृतराष्ट्र उवाच पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय 001a
राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः 001c
पशून्वासांसि रत्नानि धनानि विविधानि च 002a
पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् 002c
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु 003a
यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् 003c
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः 004a
यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः 004c
005 वैशम्पायन उवाच विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत 005a
पाण्डुं संस्कारयामास देशे परमसंवृते 005c
ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः 006a
निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः 006c
अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः 007a
शिबिकां समलञ्चक्रुर्वाससाच्छाद्य सर्वशः 007c
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः 008a
अमात्या ज्ञातयश्चैव सुहृदश्चोपतस्थिरे 008c
नृसिंहं नरयुक्तेन परमालङ्कृतेन तम् 009a
अवहन्यानमुख्येन सह माद्र्या सुसंवृतम् 009c
पाण्डुरेणातपत्रेण चामरव्यजनेन च 010a
सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः 010c
रत्नानि चाप्युपादाय बहूनि शतशो नराः 011a
प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम् 011c
अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च 012a
आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च 012c
याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः 013a
अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः 013c
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः 014a
रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम् 014c
अयमस्मानपाहाय दुःखे चाधाय शाश्वते 015a
कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः 015c
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च 016a
रमणीये वनोद्देशे गङ्गातीरे समे शुभे 016c
न्यासयामासुरथ तां शिबिकां सत्यवादिनः 017a
सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः 017c
ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम् 018a
शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम् 018c
पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः 018e
चन्दनेन च मुख्येन शुक्लेन समलेपयन् 019a
कालागुरुविमिश्रेण तथा तुङ्गरसेन च 019c
अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् 020a
आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः 020c
शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः 020e
याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः 021a
घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम् 021c
तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना 022a
अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन् 022c
ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता 023a
हाहा पुत्रेति कौसल्या पपात सहसा भुवि 023c
तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः 024a
रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः 024c
क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः 025a
मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि 025c
तथा भीष्मः शान्तनवो विदुरश्च महामतिः 026a
सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः 026c
ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः 027a
उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः 027c
कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान् 028a
सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन् 028c
यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः 029a
तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः 029c
तदनानन्दमस्वस्थमाकुमारमहृष्टवत् 030a
बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः 030c