001 वैशम्पायन उवाच
पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः 001a
ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः 001c
हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः 002a
अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः 002c
स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह 003a
प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः 003c
ते परस्परमामन्त्र्य सर्वभूतहिते रताः 004a
पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् 004c
उदारमनसः सिद्धा गमने चक्रिरे मनः 005a
भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि 005c
तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे 006a
पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः 006c
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला 007a
प्रपन्ना दीर्घमध्वानं सङ्क्षिप्तं तदमन्यत 007c
सा नदीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् 008a
वर्धमानपुरद्वारमाससाद यशस्विनी 008c
तं चारणसहस्राणां मुनीनामागमं तदा 009a
श्रुत्वा नागपुरे नॄणां विस्मयः समजायत 009c
मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः 010a
सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः 010c
स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घान्समास्थिताः 011a
ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः 011c
तथा विट्शूद्रसङ्घानां महान्व्यतिकरोऽभवत् 012a
न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः 012c
तथा भीष्मः शान्तनवः सोमदत्तोऽथ बाह्लिकः 013a
प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् 013c
सा च सत्यवती देवी कौसल्या च यशस्विनी 014a
राजदारैः परिवृता गान्धारी च विनिर्ययौ 014c
धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः 015a
भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः 015c
तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च 016a
उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः 016c
तथैव शिरसा भूमावभिवाद्य प्रणम्य च 017a
उपोपविविशुः सर्वे पौरजानपदा अपि 017c
तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा 018a
भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् 018c
तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी 019a
महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् 019c
यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः 020a
कामभोगान्परित्यज्य शतशृङ्गमितो गतः 020c
ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना 021a
साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः 021c
तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः 022a
मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् 022c
पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः 023a
यस्य कीरित्र्महेष्वासान्सर्वानभिभविष्यति 023c
यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ 024a
अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः 024c
चरता धर्मनित्येन वनवासं यशस्विना 025a
एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः 025c
पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च 026a
पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत 026c
वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च 027a
पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि 027c
तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् 028a
प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः 028c
सा गता सह तेनैव पतिलोकमनुव्रता 029a
तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् 029c
इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः 030a
क्रियाभिरनुगृह्यन्तां सह मात्रा परन्तपाः 030c
प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः 031a
लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः 031c
एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् 032a
क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह 032c
गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः 033a
ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः 033c