001 वैशम्पायन उवाच
दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने 001a
तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान् 001c
सुपुष्पितवने काले कदाचिन्मधुमाधवे 002a
भूतसम्मोहने राजा सभार्यो व्यचरद्वनम् 002c
पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः 003a
अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः 003c
जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् 004a
पाण्डोर्वनं तु सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः 004c
प्रहृष्टमनसं तत्र विहरन्तं यथामरम् 005a
तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् 005c
समीक्षमाणः स तु तां वयःस्थां तनुवाससम् 006a
तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः 006c
रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम् 007a
न शशाक नियन्तुं तं कामं कामबलात्कृतः 007c
तत एनां बलाद्राजा निजग्राह रहोगताम् 008a
वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् 008c
स तु कामपरीतात्मा तं शापं नान्वबुध्यत 009a
माद्रीं मैथुनधर्मेण गच्छमानो बलादिव 009c
जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः 010a
शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम् 010c
तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता 011a
सम्प्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा 011c
स तया सह सङ्गम्य भार्यया कुरुनन्दन 012a
पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा 012c
ततो माद्री समालिङ्ग्य राजानं गतचेतसम् 013a
मुमोच दुःखजं शब्दं पुनः पुनरतीव ह 013c
सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ 014a
आजग्मुः सहितास्तत्र यत्र राजा तथागतः 014c
ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः 015a
एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः 015c
तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान् 016a
हताहमिति विक्रुश्य सहसोपजगाम ह 016c
दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले 017a
कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता 017c
रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् 018a
कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः 018c
ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः 019a
सा कथं लोभितवती विजने त्वं नराधिपम् 019c
कथं दीनस्य सततं त्वामासाद्य रहोगताम् 020a
तं विचिन्तयतः शापं प्रहर्षः समजायत 020c
धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा 021a
दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः 021c
022 माद्र्युवाच
विलोभ्यमानेन मया वार्यमाणेन चासकृत् 022a
आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा 022c
023 कुन्त्युवाच
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम 023a
अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय 023c
अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम् 024a
उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् 024c
025 माद्र्युवाच
अहमेवानुयास्यामि भर्तारमपलायिनम् 025a
न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम् 025c
मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः 026a
तमुच्छिन्द्यामस्य कामं कथं नु यमसादने 026c
न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते 027a
वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम् 027c
तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् 028a
मां हि कामयमानोऽयं राजा प्रेतवशं गतः 028c
राज्ञः शरीरेण सह ममापीदं कलेवरम् 029a
दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु 029c
दारकेष्वप्रमत्ता च भवेथाश्च हिता मम 030a
अतोऽन्यन्न प्रपश्यामि सन्देष्टव्यं हि किञ्चन 030c
031 वैशम्पायन उवाच
031a इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम्
031c मद्रराजात्मजा तूर्णमन्वारोहयद्यशस्विनी