001 वैशम्पायन उवाच कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च 001a
मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् 001c
न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप 002a
नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा 002c
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा 003a
श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन 003c
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता 004a
दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः 004c
यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि 005a
कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् 005c
स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति 006a
यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय 006c
007 पाण्डुरुवाच ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते 007a
न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया 007c
तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम् 008a
मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते 008c
009 वैशम्पायन उवाच ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् 009a
कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् 009c
मम चापिण्डनाशाय पूर्वेषामपि चात्मनः 010a
मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् 010c
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् 011a
प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोर्थिना 011c
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् 012a
गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि 012c
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः 013a
चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् 013c
सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दिते 014a
अपत्यसंविभागेन परां कीर्तिमवाप्नुहि 014c
एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् 015a
तस्मात्ते भवितापत्यमनुरूपमसंशयम् 015c
ततो माद्री विचार्यैव जगाम मनसाश्विनौ 016a
तावागम्य सुतौ तस्यां जनयामासतुर्यमौ 016c
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि 017a
तथैव तावपि यमौ वागुवाचाशरीरिणी 017c
रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति 018a
भासतस्तेजसात्यर्थं रूपद्रविणसम्पदा 018c
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः 019a
भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते 019c
ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम् 020a
अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् 020c
पूर्वजं नकुलेत्येवं सहदेवेति चापरम् 021a
माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः 021c
अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः 021e
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् 022a
तमुवाच पृथा राजन्रहस्युक्ता सती सदा 022c
उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता 023a
बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी 023c
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् 024a
तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम 024c
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः 025a
सम्भूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः 025c
शुभलक्षणसम्पन्नाः सोमवत्प्रियदर्शनाः 026a
सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः 026c
सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः 026e
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ 027a
विस्मयं जनयामासुर्महर्षीणां समेयुषाम् 027c
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः 028a
सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः 028c