001 वैशम्पायन उवाच
संवत्सराहिते गर्भे गान्धार्या जनमेजय 001a
आह्वयामास वै कुन्ती गर्भार्थं धर्ममच्युतम् 001c
सा बलिं त्वरिता देवी धर्मायोपजहार ह 002a
जजाप जप्यं विधिवद्दत्तं दुर्वाससा पुरा 002c
सङ्गम्य सा तु धर्मेण योगमूर्तिधरेण वै 003a
लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम् 003c
ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे 004a
दिवा मध्यगते सूर्ये तिथौ पुण्येऽभिपूजिते 004c
समृद्धयशसं कुन्ती सुषाव समये सुतम् 005a
जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी 005c
एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः 006a
युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः 006c
भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः 007a
यशसा तेजसा चैव वृत्तेन च समन्वितः 007c
धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् 008a
प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु 008c
ततस्तथोक्ता पत्या तु वायुमेवाजुहाव सा 009a
तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः 009c
तमप्यतिबलं जातं वागभ्यवददच्युतम् 010a
सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत 010c
इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे 011a
यदङ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत् 011c
कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल 012a
नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम् 012c
ततः स वज्रसङ्घातः कुमारोऽभ्यपतद्गिरौ 013a
पतता तेन शतधा शिला गात्रैर्विचूर्णिता 013c
तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागमत् 013e
यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम 014a
दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप 014c
जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् 015a
कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति 015c
दैवे पुरुषकारे च लोकोऽयं हि प्रतिष्ठितः 016a
तत्र दैवं तु विधिना कालयुक्तेन लभ्यते 016c
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् 017a
अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः 017c
तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् 018a
यं दास्यति स मे पुत्रं स वरीयान्भविष्यति 018c
कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः 018e
ततः पाण्डुर्महातेजा मन्त्रयित्वा महर्षिभिः 019a
दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् 019c
आत्मना च महाबाहुरेकपादस्थितोऽभवत् 020a
उग्रं स तप आतस्थे परमेण समाधिना 020c
आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम् 021a
सूर्येण सह धर्मात्मा पर्यवर्तत भारत 021c
तं तु कालेन महता वासवः प्रत्यभाषत 022a
पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् 022c
देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम् 023a
सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् 023c
इत्युक्तः कौरवो राजा वासवेन महात्मना 024a
उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् 024c
नीतिमन्तं महात्मानमादित्यसमतेजसम् 025a
दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् 025c
पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् 026a
लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते 026c
एवमुक्ता ततः शक्रमाजुहाव यशस्विनी 027a
अथाजगाम देवेन्द्रो जनयामास चार्जुनम् 027c
जातमात्रे कुमारे तु वागुवाचाशरीरिणी 028a
महागम्भीरनिर्घोषा नभो नादयती तदा 028c
कार्तवीर्यसमः कुन्ति शिबितुल्यपराक्रमः 029a
एष शक्र इवाजेयो यशस्ते प्रथयिष्यति 029c
अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता 030a
तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः 030c
एष मद्रान्वशे कृत्वा कुरूंश्च सह केकयैः 031a
चेदिकाशिकरूषांश्च कुरुलक्ष्म सुधास्यति 031c
एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः 032a
मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् 032c
ग्रामणीश्च महीपालानेष जित्वा महाबलः 033a
भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति 033c
जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः 034a
एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः 034c
तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति 035a
विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः 035c
एतामत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके 036a
उक्तवान्वायुराकाशे कुन्ती शुश्राव चास्य ताम् 036c
वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम् 037a
बभूव परमो हर्षः शतशृङ्गनिवासिनाम् 037c
तथा देवऋषीणां च सेन्द्राणां च दिवौकसाम् 038a
आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः 038c
उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः 039a
समवेत्य च देवानां गणाः पार्थमपूजयन् 039c
काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा 040a
प्रजानां पतयः सर्वे सप्त चैव महर्षयः 040c
भरद्वाजः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निर्वसिष्ठः 041a
यश्चोदितो भास्करेऽभूत्प्रनष्टे; सोऽप्यत्रात्रिर्भगवानाजगाम 041c
मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः 042a
दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा 042c
दिव्यमाल्याम्बरधराः सर्वालङ्कारभूषिताः 043a
उपगायन्ति बीभत्सुमुपनृत्यन्ति चाप्सराः 043c
गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः 043e
भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा 044a
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः 044c
युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा 045a
त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः 045c
कलिः पञ्चदशश्चात्र नारदश्चैव षोडशः 046a
सद्वा बृहद्वा बृहकः करालश्च महायशाः 046c
ब्रह्मचारी बहुगुणः सुपर्णश्चेति विश्रुतः 047a
विश्वावसुर्भुमन्युश्च सुचन्द्रो दशमस्तथा 047c
गीतमाधुर्यसम्पन्नौ विख्यातौ च हहाहुहू 048a
इत्येते देवगन्धर्वा जगुस्तत्र नरर्षभम् 048c
तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः 049a
ननृतुर्वै महाभागा जगुश्चायतलोचनाः 049c
अनूना चानवद्या च प्रियमुख्या गुणावरा 050a
अद्रिका च तथा साची मिश्रकेशी अलम्बुसा 050c
मरीचिः शिचुका चैव विद्युत्पर्णा तिलोत्तमा 051a
अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा 051c
असिता च सुबाहुश्च सुप्रिया सुवपुस्तथा 052a
पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी 052c
काम्या शारद्वती चैव ननृतुस्तत्र सङ्घशः 053a
मेनका सहजन्या च पर्णिका पुञ्जिकस्थला 053c
क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि 054a
उम्लोचेत्यभिविख्याता प्रम्लोचेति च ता दश 054c
उर्वश्येकादशीत्येता जगुरायतलोचनाः 054e
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा 055a
इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा 055c
पर्जन्यश्चैव विष्णुश्च आदित्याः पावकार्चिषः 056a
महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः 056c
मृगव्याधश्च शर्वश्च निर्ऋतिश्च महायशाः 057a
अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः 057c
दहनोऽथेश्वरश्चैव कपाली च विशां पते 058a
स्थाणुर्भवश्च भगवान्रुद्रास्तत्रावतस्थिरे 058c
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः 059a
विश्वेदेवास्तथा साध्यास्तत्रासन्परिसंस्थिताः 059c
कर्कोटकोऽथ शेषश्च वासुकिश्च भुजङ्गमः 060a
कच्छपश्चापकुण्डश्च तक्षकश्च महोरगः 060c
आययुस्तेजसा युक्ता महाक्रोधा महाबलाः 061a
एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः 061c
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः 062a
अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः 062c
तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः 063a
अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवान्प्रति 063c
पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः 064a
प्राहिणोद्दर्शनीयाङ्गीं कुन्ती त्वेनमथाब्रवीत् 064c
नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत 065a
अतः परं चारिणी स्यात्पञ्चमे बन्धकी भवेत् 065c
स त्वं विद्वन्धर्ममिमं बुद्धिगम्यं कथं नु माम् 066a
अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे 066c