001 वैशम्पायन उवाच एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् 001a
धर्मविद्धर्मसम्युक्तमिदं वचनमुत्तमम् 001c
एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह 002a
यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः 002c
अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निबोध मे 003a
पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः 003c
अनावृताः किल पुरा स्त्रिय आसन्वरानने 004a
कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने 004c
तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् 005a
नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराभवत् 005c
तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः 006a
अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः 006c
पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः 006e
उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते 007a
स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः 007c
अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते 008a
स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु 008c
बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् 009a
श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः 009c
मर्यादेयं कृता तेन मानुषेष्विति नः श्रुतम् 010a
कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे 010c
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः 011a
जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् 011c
ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा 012a
मातरं तां तथा दृष्ट्वा नीयमानां बलादिव 012c
क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह 013a
मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः 013c
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि 014a
यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः 014c
ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे 015a
चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि 015c
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु 016a
तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम् 016c
व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् 017a
भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम् 017c
भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् 018a
पतिव्रतामेतदेव भविता पातकं भुवि 018c
पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च 019a
न करिष्यति तस्याश्च भविष्यत्येतदेव हि 019c
इति तेन पुरा भीरु मर्यादा स्थापिता बलात् 020a
उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना 020c
सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि 021a
मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् 021c
तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी 022a
भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया 022c
अस्माकमपि ते जन्म विदितं कमलेक्षणे 023a
कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये 023c
अत एतानि सर्वाणि कारणानि समीक्ष्य वै 024a
ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते 024c
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते 025a
नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः 025c
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति 026a
धर्ममेतं जनाः सन्तः पुराणं परिचक्षते 026c
भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा 027a
यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः 027c
विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् 028a
यथाहमनवद्याङ्गि पुत्रदर्शनलालसः 028c
तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे 029a
प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः 029c
मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात् 030a
पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि 030c
त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् 030e
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् 031a
प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता 031c
पितृवेश्मन्यहं बाला नियुक्तातिथिपूजने 032a
उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् 032c
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः 033a
तमहं संशितात्मानं सर्वयत्नैरतोषयम् 033c
स मेऽभिचारसम्युक्तमाचष्ट भगवान्वरम् 034a
मन्त्रग्रामं च मे प्रादादब्रवीच्चैव मामिदम् 034c
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि 035a
अकामो वा सकामो वा स ते वशमुपैष्यति 035c
इत्युक्ताहं तदा तेन पितृवेश्मनि भारत 036a
ब्राह्मणेन वचस्तथ्यं तस्य कालोऽयमागतः 036c
अनुज्ञाता त्वया देवमाह्वयेयमहं नृप 037a
तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो 037c
आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर 038a
त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम् 038c
039 पाण्डुरुवाच अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि 039a
धर्ममावाहय शुभे स हि देवेषु पुण्यभाक् 039c
अधर्मेण न नो धर्मः सम्युज्येत कथञ्चन 040a
लोकश्चायं वरारोहे धर्मोऽयमिति मंस्यते 040c
धार्मिकश्च कुरूणां स भविष्यति न संशयः 041a
दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः 041c
तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते 042a
उपचाराभिचाराभ्यां धर्ममाराधयस्व वै 042c
043 वैशम्पायन उवाच सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना 043a
अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत 043c