001 वैशम्पायन उवाच एवमुक्ता महाराज कुन्ती पाण्डुमभाषत 001a
कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् 001c
न मामर्हसि धर्मज्ञ वक्तुमेवं कथञ्चन 002a
धर्मपत्नीमभिरतां त्वयि राजीवलोचन 002c
त्वमेव तु महाबाहो मय्यपत्यानि भारत 003a
वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि 003c
स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया 004a
अपत्याय च मां गच्छ त्वमेव कुरुनन्दन 004c
न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् 005a
त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः 005c
इमां च तावद्धर्म्यां त्वं पौराणीं शृणु मे कथाम् 006a
परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम् 006c
व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः 007a
पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः 007c
तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनि 008a
उपागमंस्ततो देवाः सेन्द्राः सह महर्षिभिः 008c
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः 009a
व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः 009c
व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत 010a
सर्वभूतान्यति यथा तपनः शिशिरात्यये 010c
स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः 011a
प्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत् 011c
अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् 012a
बभूव स हि राजेन्द्रो दशनागबलान्वितः 012c
अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः 013a
व्युषिताश्वः समुद्रान्तां विजित्येमां वसुन्धराम् 013c
अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् 013e
यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम् 014a
अनन्तरत्नान्यादाय आजहार महाक्रतून् 014c
सुषाव च बहून्सोमान्सोमसंस्थास्ततान च 014e
आसीत्काक्षीवती चास्य भार्या परमसम्मता 015a
भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि 015c
कामयामासतुस्तौ तु परस्परमिति श्रुतिः 016a
स तस्यां कामसम्मत्तो यक्ष्माणं समपद्यत 016c
तेनाचिरेण कालेन जगामास्तमिवांशुमान् 017a
तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता 017c
अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् 018a
भद्रा परमदुःखार्ता तन्निबोध नराधिप 018c
नारी परमधर्मज्ञ सर्वा पुत्रविनाकृता 019a
पतिं विना जीवति या न सा जीवति दुःखिता 019c
पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुङ्गव 020a
त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम् 020c
त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे 021a
प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् 021c
पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च 022a
त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम् 022c
छायेवानपगा राजन्सततं वशवर्तिनी 023a
भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता 023c
अद्य प्रभृति मां राजन्कष्टा हृदयशोषणाः 024a
आधयोऽभिभविष्यन्ति त्वदृते पुष्करेक्षण 024c
अभाग्यया मया नूनं वियुक्ताः सहचारिणः 025a
सम्योगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव 025c
तदिदं कर्मभिः पापैः पूर्वदेहेषु सञ्चितम् 026a
दुःखं मामनुसम्प्राप्तं राजंस्त्वद्विप्रयोगजम् 026c
अद्यप्रभृत्यहं राजन्कुशप्रस्तरशायिनी 027a
भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा 027c
दर्शयस्व नरव्याघ्र साधु मामसुखान्विताम् 028a
दीनामनाथां कृपणां विलपन्तीं नरेश्वर 028c
एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः 029a
तं शवं सम्परिष्वज्य वाक्किलान्तर्हिताब्रवीत् 029c
उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव 030a
जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि 030c
आत्मीये च वरारोहे शयनीये चतुर्दशीम् 031a
अष्टमीं वा ऋतुस्नाता संविशेथा मया सह 031c
एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता 032a
यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा 032c
सा तेन सुषुवे देवी शवेन मनुजाधिप 033a
त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम 033c
तथा त्वमपि मय्येव मनसा भरतर्षभ 034a
शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वयात् 034c