001 वैशम्पायन उवाच तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् 001a
सिद्धचारणसङ्घानां बभूव प्रियदर्शनः 001c
शुश्रूषुरनहंवादी सम्यतात्मा जितेन्द्रियः 002a
स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत 002c
केषाञ्चिदभवद्भ्राता केषाञ्चिदभवत्सखा 003a
ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् 003c
स तु कालेन महता प्राप्य निष्कल्मषं तपः 004a
ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ 004c
स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः 005a
प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः 005c
उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः 005e
दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम् 006a
आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा 006c
उद्यानानि कुबेरस्य समानि विषमाणि च 007a
महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान् 007c
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः 008a
सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः 008c
अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः 009a
वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः 009c
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे 010a
न सीदेतामदुःखार्हे मा गमो भरतर्षभ 010c
011 पाण्डुरुवाच अप्रजस्य महाभागा न द्वारं परिचक्षते 011a
स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः 011c
ऋणैश्चतुर्भिः सम्युक्ता जायन्ते मनुजा भुवि 012a
पितृदेवर्षिमनुजदेयैः शतसहस्रशः 012c
एतानि तु यथाकालं यो न बुध्यति मानवः 013a
न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् 013c
यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन् 014a
पुत्रैः श्राद्धैः पितॄंश्चापि आनृशंस्येन मानवान् 014c
ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः 015a
पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः 015c
देहनाशे ध्रुवो नाशः पितॄणामेष निश्चयः 016a
इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः 016c
यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना 017a
तथैवास्मिन्मम क्षेत्रे कथं वै सम्भवेत्प्रजा 017c
018 तापसा ऊचुः अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् 018a
अपत्यमनघं राजन्वयं दिव्येन चक्षुषा 018c
दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय 019a
अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः 019c
तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि 020a
अपत्यं गुणसम्पन्नं लब्ध्वा प्रीतिमवाप्स्यसि 020c
021 वैशम्पायन उवाच तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत् 021a
आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् 021c
सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् 022a
अपत्योत्पादने योगमापदि प्रसमर्थयन् 022c
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता 023a
इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः 023c
इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः 024a
सर्वमेवानपत्यस्य न पावनमिहोच्यते 024c
सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते 025a
अनपत्यः शुभाल्ँलोकान्नावाप्स्यामीति चिन्तयन् 025c
मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः 026a
नृशंसकारिणो भीरु यथैवोपहतं तथा 026c
इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने 027a
षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे 027c
स्वयञ्जातः प्रणीतश्च परिक्रीतश्च यः सुतः 028a
पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते 028c
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः 029a
सहोढो जातरेताश्च हीनयोनिधृतश्च यः 029c
पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् 030a
उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि 030c
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः 031a
आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् 031c
तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् 032a
सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि 032c
शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति 033a
या वीरपत्नी गुरुभिर्नियुक्तापत्यजन्मनि 033c
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे 034a
वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् 034c
कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् 035a
तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् 035c
तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् 036a
मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति 036c