001 वैशम्पायन उवाच तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् 001a
सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः 001c
002 पाण्डुरुवाच सतामपि कुले जाताः कर्मणा बत दुर्गतिम् 002a
प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः 002c
शश्वद्धर्मात्मना जातो बाल एव पिता मम 003a
जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् 003c
तस्य कामात्मनः क्षेत्रे राज्ञः सम्यतवागृषिः 004a
कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् 004c
तस्याद्य व्यसने बुद्धिः सञ्जातेयं ममाधमा 005a
त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः 005c
मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् 006a
सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् 006c
अतीव तपसात्मानं योजयिष्याम्यसंशयम् 006e
तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ 007a
चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् 007c
पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः 008a
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः 008c
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः 009a
निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः 009c
न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् 010a
प्रसन्नवदनो नित्यं सर्वभूतहिते रतः 010c
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् 011a
स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति 011c
एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च 012a
असम्भवे वा भैक्षस्य चरन्ननशनान्यपि 012c
अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित् 013a
नित्यं नातिचरल्ँलाभे अलाभे सप्त पूरयन् 013c
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः 014a
नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः 014c
न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् 015a
मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् 015c
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः 016a
ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः 016c
तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः 017a
सम्परित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः 017c
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः 018a
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः 018c
एतया सततं वृत्त्या चरन्नेवम्प्रकारया 019a
देहं सन्धारयिष्यामि निर्भयं मार्गमास्थितः 019c
नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते 020a
स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः 020c
सत्कृतोऽसत्कृतो वापि योऽन्यां कृपणचक्षुषा 021a
उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि 021c
022 वैशम्पायन उवाच एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः 022a
अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत 022c
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः 023a
आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः 023c
ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः 024a
पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः 024c
प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् 024e
निशम्य वचनं भर्तुर्वनवासे धृतात्मनः 025a
तत्समं वचनं कुन्ती माद्री च समभाषताम् 025c
अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ 026a
आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् 026c
त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः 026e
प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे 027a
त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः 027c
यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते 028a
अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः 028c
029 पाण्डुरुवाच यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् 029a
स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् 029c
त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः 030a
वल्कली फलमूलाशी चरिष्यामि महावने 030c
अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् 031a
कृशः परिमिताहारश्चीरचर्मजटाधरः 031c
शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः 032a
तपसा दुश्चरेणेदं शरीरमुपशोषयन् 032c
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् 033a
पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् 033c
वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् 034a
नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् 034c
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् 035a
काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् 035c
036 वैशम्पायन उवाच इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः 036a
ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च 036c
वासांसि च महार्हाणि स्त्रीणामाभरणानि च 036e
प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत 037a
गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् 037c
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् 038a
प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुङ्गवः 038c
ततस्तस्यानुयात्राणि ते चैव परिचारकाः 039a
श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः 039c
भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः 039e
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् 040a
ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः 040c
श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने 041a
धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत 041c
राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः 042a
जगाम सह भार्याभ्यां ततो नागसभं गिरिम् 042c
स चैत्ररथमासाद्य वारिषेणमतीत्य च 043a
हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् 043c
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः 044a
उवास स तदा राजा समेषु विषमेषु च 044c
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च 045a
शतशृङ्गे महाराज तापसः समपद्यत 045c