001 जनमेजय उवाच कथितो धार्तराष्ट्राणामार्षः सम्भव उत्तमः 001a
अमानुषो मानुषाणां भवता ब्रह्मवित्तम 001c
नामधेयानि चाप्येषां कथ्यमानानि भागशः 002a
त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय 002c
ते हि सर्वे महात्मानो देवराजपराक्रमाः 003a
त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः 003c
तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम् 004a
तेषामाजननं सर्वं वैशम्पायन कीर्तय 004c
005 वैशम्पायन उवाच राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते 005a
वने मैथुनकालस्थं ददर्श मृगयूथपम् 005c
ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः 006a
निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः 006c
स च राजन्महातेजा ऋषिपुत्रस्तपोधनः 007a
भार्यया सह तेजस्वी मृगरूपेण सङ्गतः 007c
संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् 008a
क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः 008c
009 मृग उवाच काममन्युपरीतापि बुद्ध्यङ्गरहितापि च 009a
वर्जयन्ति नृशंसानि पापेष्वभिरता नराः 009c
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः 010a
विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते 010c
शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत 011a
कामलोभाभिभूतस्य कथं ते चलिता मतिः 011c
012 पाण्डुरुवाच शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता 012a
राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि 012c
अच्छद्मनामायया च मृगाणां वध इष्यते 013a
स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे 013c
अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः 014a
आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने 014c
प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे 015a
अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता 015c
016 मृग उवाच न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् 016a
रन्ध्र एषां विशेषेण वधकालः प्रशस्यते 016c
017 पाण्डुरुवाच प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा 017a
उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे 017c
018 मृग उवाच नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात् 018a
मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः 018c
सर्वभूतहिते काले सर्वभूतेप्सिते तथा 019a
को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने 019c
पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम् 019e
पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम् 020a
वंशे जातस्य कौरव्य नानुरूपमिदं तव 020c
नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् 021a
अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत 021c
स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् 022a
नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम् 022c
त्वया नृशंसकर्तारः पापाचाराश्च मानवाः 023a
निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः 023c
किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम् 024a
मुनिं मूलफलाहारं मृगवेषधरं नृप 024c
वसमानमरण्येषु नित्यं शमपरायणम् 024e
त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम् 025a
द्वयोर्नृशंसकर्तारमवशं काममोहितम् 025c
जीवितान्तकरो भाव एवमेवागमिष्यति 025e
अहं हि किन्दमो नाम तपसाप्रतिमो मुनिः 026a
व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् 026c
मृगो भूत्वा मृगैः सार्धं चरामि गहने वने 027a
न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः 027c
मृगरूपधरं हत्वा मामेवं काममोहितम् 027e
अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि 028a
प्रियया सह संवासं प्राप्य कामविमोहितः 028c
त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि 028e
अन्तकाले च संवासं यया गन्तासि कान्तया 029a
प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् 029c
भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति 029e
वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया 030a
तथा सुखं त्वां सम्प्राप्तं दुःखमभ्यागमिष्यति 030c
031 वैशम्पायन उवाच एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत 031a
मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत 031c