001 वैशम्पायन उवाच
ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय 001a
धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः 001c
पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः 002a
देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै 002c
003 जनमेजय उवाच
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम 003a
कियता चैव कालेन तेषामायुश्च किं परम् 003c
कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् 004a
कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् 004c
आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत 004e
कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना 005a
समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः 005c
एतद्विद्वन्यथावृत्तं विस्तरेण तपोधन 006a
कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु 006c
007 वैशम्पायन उवाच
क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् 007a
तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ 007c
सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः 008a
ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् 008c
संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् 009a
अप्रजा धारयामास ततस्तां दुःखमाविशत् 009c
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् 010a
उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत् 010c
अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः 011a
सोदरं पातयामास गान्धारी दुःखमूर्च्छिता 011c
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता 012a
द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे 012c
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् 013a
तां स मांसमयीं पेशीं ददर्श जपतां वरः 013c
ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् 014a
सा चात्मनो मतं सत्यं शशंस परमर्षये 014c
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् 015a
दुःखेन परमेणेदमुदरं पातितं मया 015c
शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा 016a
इयं च मे मांसपेशी जाता पुत्रशताय वै 016c
017 व्यास उवाच
एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् 017a
वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा 017c
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् 018a
शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत 018c
019 वैशम्पायन उवाच
सा सिच्यमाना अष्ठीला अभवच्छतधा तदा 019a
अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु 019c
एकाधिकशतं पूर्णं यथायोगं विशां पते 020a
मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् 020c
ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा 021a
स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः 021c
शशास चैव भगवान्कालेनैतावता पुनः 022a
विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम् 022c
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च 023a
जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् 023c
जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः 024a
जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः 024c
जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम् 025a
समानीय बहून्विप्रान्भीष्मं विदुरमेव च 025c
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः 026a
प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः 026c
अयं त्वनन्तरस्तस्मादपि राजा भविष्यति 027a
एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् 027c
वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत 028a
क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः 028c
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः 029a
तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः 029c
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव 030a
तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान् 030c
शतमेकोनमप्यस्तु पुत्राणां ते महीपते 031a
एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च 031c
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् 032a
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् 032c
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः 033a
न चकार तथा राजा पुत्रस्नेहसमन्वितः 033c
ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव 034a
मासमात्रेण सञ्जज्ञे कन्या चैका शताधिका 034c
गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता 035a
धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल 035c
तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः 036a
जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप 036c
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः 037a
महारथानां वीराणां कन्या चैकाथ दुःशला 037c