001 वैशम्पायन उवाच धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् 001a
भीष्माय सत्यवत्यै च मात्रे चोपजहार सः 001c
विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् 002a
सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् 002c
ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् 003a
शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत 003c
ननन्द माता कौसल्या तमप्रतिमतेजसम् 004a
जयन्तमिव पौलोमी परिष्वज्य नरर्षभम् 004c
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः 005a
अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः 005c
सम्प्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ 006a
जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः 006c
हित्वा प्रासादनिलयं शुभानि शयनानि च 007a
अरण्यनित्यः सततं बभूव मृगयापरः 007c
स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः 008a
उवास गिरिपृष्ठेषु महाशालवनेषु च 008c
रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् 009a
करेण्वोरिव मध्यस्थः श्रीमान्पौरन्दरो गजः 009c
भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् 010a
विचित्रकवचं वीरं परमास्त्रविदं नृपम् 010c
देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः 010e
तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः 011a
उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः 011c
अथ पारशवीं कन्यां देवकस्य महीपतेः 012a
रूपयौवनसम्पन्नां स शुश्रावापगासुतः 012c
ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः 013a
विवाहं कारयामास विदुरस्य महामतेः 013c
तस्यां चोत्पादयामास विदुरः कुरुनन्दनः 014a
पुत्रान्विनयसम्पन्नानात्मनः सदृशान्गुणैः 014c