001 वैशम्पायन उवाच
रूपसत्त्वगुणोपेता धर्मारामा महाव्रता 001a
दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे 001c
सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् 002a
भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत 002c
स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः 003a
युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव 003c
यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् 004a
विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता 004c
सर्वराजसु विख्याता रूपेणासदृशी भुवि 005a
पाण्डोरर्थे परिक्रीता धनेन महता तदा 005c
विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः 005e
सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम् 006a
पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि 006c
कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः 007a
जिगीषमाणो वसुधां ययौ शत्रूननेकशः 007c
पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः 008a
पाण्डुना नरसिंहेन कौरवाणां यशोभृता 008c
ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् 009a
प्रभूतहस्त्यश्वरथां पदातिगणसङ्कुलाम् 009c
आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् 010a
गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः 010c
ततः कोशं समादाय वाहनानि बलानि च 011a
पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः 011c
तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ 012a
स्वबाहुबलवीर्येण कुरूणामकरोद्यशः 012c
तं शरौघमहाज्वालमस्त्रार्चिषमरिन्दमम् 013a
पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः 013c
ते ससेनाः ससेनेन विध्वंसितबला नृपाः 014a
पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः 014c
तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः 015a
तमेकं मेनिरे शूरं देवेष्विव पुरन्दरम् 015c
तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः 016a
उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च 016c
मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा 017a
गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् 017c
खरोष्ट्रमहिषांश्चैव यच्च किञ्चिदजाविकम् 018a
तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः 018c
तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः 019a
हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् 019c
शन्तनो राजसिंहस्य भरतस्य च धीमतः 020a
प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः 020c
ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च 021a
ते नागपुरसिंहेन पाण्डुना करदाः कृताः 021c
इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः 022a
प्रतीतमनसो हृष्टाः पौरजानपदैः सह 022c
प्रत्युद्ययुस्तं सम्प्राप्तं सर्वे भीष्मपुरोगमाः 023a
ते नदूरमिवाध्वानं गत्वा नागपुरालयाः 023c
आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः 023e
नानायानसमानीतै रत्नैरुच्चावचैस्तथा 024a
हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः 024c
नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः 024e
सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः 025a
यथार्हं मानयामास पौरजानपदानपि 025c
प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् 026a
पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् 026c
स तूर्यशतसङ्घानां भेरीणां च महास्वनैः 027a
हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् 027c