001 वैशम्पायन उवाच
शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत् 001a
तस्य कन्या पृथा नाम रूपेणासदृशी भुवि 001c
पैतृष्वसेयाय स तामनपत्याय वीर्यवान् 002a
अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान् 002c
अग्रजातेति तां कन्यामग्र्यानुग्रहकाङ्क्षिणे 003a
प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने 003c
सा नियुक्ता पितुर्गेहे देवतातिथिपूजने 004a
उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम् 004c
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः 005a
तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् 005c
तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया 006a
अभिचाराभिसम्युक्तमब्रवीच्चैव तां मुनिः 006c
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि 007a
तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति 007c
तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा 008a
कन्या सती देवमर्कमाजुहाव यशस्विनी 008c
सा ददर्श तमायान्तं भास्करं लोकभावनम् 009a
विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् 009c
प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः 010a
अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम् 010c
आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः 010e
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः 011a
अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः 011c
प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः 012a
दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः 012c
गूहमानापचारं तं बन्धुपक्षभयात्तदा 013a
उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् 013c
तमुत्सृष्टं तदा गर्भं राधाभर्ता महायशाः 014a
पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः 014c
नामधेयं च चक्राते तस्य बालस्य तावुभौ 015a
वसुना सह जातोऽयं वसुषेणो भवत्विति 015c
स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् 016a
आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान् 016c
यस्मिन्काले जपन्नास्ते स वीरः सत्यसङ्गरः 017a
नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः 017c
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः 018a
कुण्डले प्रार्थयामास कवचं च महाद्युतिः 018c
उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम् 019a
कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः 019c
शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमब्रवीत् 020a
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् 020c
यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति 020e
पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतम् 021a
ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् 021c