001 भीष्म उवाच
गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् 001a
अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् 001c
रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः 002a
नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् 002c
मया च सत्यवत्या च कृष्णेन च महात्मना 003a
समवस्थापितं भूयो युष्मासु कुलतन्तुषु 003c
वर्धते तदिदं पुत्र कुलं सागरवद्यथा 004a
तथा मया विधातव्यं त्वया चैव विशेषतः 004c
श्रूयते यादवी कन्या अनुरूपा कुलस्य नः 005a
सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च 005c
कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः 006a
उचिताश्चैव सम्बन्धे तेऽस्माकं क्षत्रियर्षभाः 006c
मन्ये वरयितव्यास्ता इत्यहं धीमतां वर 007a
सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे 007c
008 विदुर उवाच
भवान्पिता भवान्माता भवान्नः परमो गुरुः 008a
तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् 008c
009 वैशम्पायन उवाच
अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् 009a
आराध्य वरदं देवं भगनेत्रहरं हरम् 009c
गान्धारी किल पुत्राणां शतं लेभे वरं शुभा 009e
इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः 010a
ततो गान्धारराजस्य प्रेषयामास भारत 010c
अचक्षुरिति तत्रासीत्सुबलस्य विचारणा 011a
कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः 011c
ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् 011e
गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम् 012a
आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत 012c
ततः सा पट्टमादाय कृत्वा बहुगुणं शुभा 013a
बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा 013c
नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया 013e
ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् 014a
स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् 014c
दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् 015a
पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः 015c
गान्धार्यपि वरारोहा शीलाचारविचेष्टितैः 016a
तुष्टिं कुरूणां सर्वेषां जनयामास भारत 016c
वृत्तेनाराध्य तान्सर्वान्पतिव्रतपरायणा 017a
वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् 017c