01 वैशम्पायन उवाच
तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् 01a
कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत 01c
ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च 02a
यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः 02c
वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः 03a
गन्धवन्ति च माल्यानि रसवन्ति फलानि च 03c
वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः 04a
शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् 04c
नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः 05a
प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत 05c
दानक्रियाधर्मशीला यज्ञव्रतपरायणाः 06a
अन्योन्यप्रीतिसम्युक्ता व्यवर्धन्त प्रजास्तदा 06c
मानक्रोधविहीनाश्च जना लोभविवर्जिताः 07a
अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत 07c
तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत 08a
द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः 08c
प्रासादशतसम्बाधं महेन्द्रपुरसन्निभम् 08e
नदीषु वनखण्डेषु वापीपल्वलसानुषु 09a
काननेषु च रम्येषु विजह्रुर्मुदिता जनाः 09c
उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा 010a
विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः 010c
नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः 010e
तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः 011a
कूपारामसभावाप्यो ब्राह्मणावसथास्तथा 011c
भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते 011e
बभूव रमणीयश्च चैत्ययूपशताङ्कितः 012a
स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः 012c
भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत 012e
क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् 013a
पौरजानपदाः सर्वे बभूवुः सततोत्सवाः 013c
गृहेषु कुरुमुख्यानां पौराणां च नराधिप 014a
दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः 014c
धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः 015a
जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः 015c
संस्कारैः संस्कृतास्ते तु व्रताध्ययनसम्युताः 016a
श्रमव्यायामकुशलाः समपद्यन्त यौवनम् 016c
धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि 017a
तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः 017c
इतिहासपुराणेषु नानाशिक्षासु चाभिभो 018a
वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः 018c
पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् 019a
अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः 019c
त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसम्मितः 020a
धर्मनित्यस्ततो राजन्धर्मे च परमं गतः 020c
प्रनष्टं शन्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् 021a
ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत 021c
वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् 022a
सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् 022c
धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत 023a
करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः 023c