001 जनमेजय उवाच किं कृतं कर्म धर्मेण येन शापमुपेयिवान् 001a
कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत 001c
002 वैशम्पायन उवाच बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः 002a
धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः 002c
स आश्रमपदद्वारि वृक्षमूले महातपाः 003a
ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः 003c
तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः 004a
तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः 004c
अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ 004e
ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम 005a
निधाय च भयाल्लीनास्तत्रैवान्वागते बले 005c
तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् 006a
आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः 006c
तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् 007a
कतरेण पथा याता दस्यवो द्विजसत्तम 007c
तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम् 007e
तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः 008a
न किञ्चिद्वचनं राजन्नवदत्साध्वसाधु वा 008c
ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् 009a
ददृशुस्तत्र सल्लीनांस्तांश्चोरान्द्रव्यमेव च 009c
ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति 010a
संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् 010c
तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति 011a
स वध्यघातैरज्ञातः शूले प्रोतो महातपाः 011c
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा 012a
प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ 012c
शूलस्थः स तु धर्मात्मा कालेन महता ततः 013a
निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् 013c
धारयामास च प्राणानृषींश्च समुपानयत् 013e
शूलाग्रे तप्यमानेन तपस्तेन महात्मना 014a
सन्तापं परमं जग्मुर्मुनयोऽथ परन्तप 014c
ते रात्रौ शकुना भूत्वा सन्न्यवर्तन्त सर्वतः 015a
दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् 015c
श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि 015e
ततः स मुनिशार्दूलस्तानुवाच तपोधनान् 016a
दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति 016c
राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः 017a
प्रसादयामास तदा शूलस्थमृषिसत्तमम् 017c
यन्मयापकृतं मोहादज्ञानादृषिसत्तम 018a
प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि 018c
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः 019a
कृतप्रसादो राजा तं ततः समवतारयत् 019c
अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह 020a
अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे 020c
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः 021a
स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः 021c
अणीमाण्डव्य इति च ततो लोकेषु कथ्यते 021e
स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् 022a
आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः 022c
किं नु तद्दुष्कृतं कर्म मया कृतमजानता 023a
यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया 023c
शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् 023e
024 धर्म उवाच पतङ्गकानां पुच्छेषु त्वयेषीका प्रवेशिता 024a
कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन 024c
025 अणीमाण्डव्य उवाच अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः 025a
शूद्रयोनावतो धर्म मानुषः सम्भविष्यसि 025c
मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् 026a
आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम् 026c
परेण कुर्वतामेवं दोष एव भविष्यति 026e
027 वैशम्पायन उवाच एतेन त्वपराधेन शापात्तस्य महात्मनः 027a
धर्मो विदुररूपेण शूद्रयोनावजायत 027c
धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः 028a
दीर्घदर्शी शमपरः कुरूणां च हिते रतः 028c