001 वैशम्पायन उवाच 001a ततः सत्यवती काले वधूं स्नातामृतौ तदा 001c संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् 002a कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति 002c अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति 003a श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे 003c साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान् 004a ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः 004c दीप्यमानेषु दीपेषु शयनं प्रविवेश ह 005a तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने 005c बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् 006a सम्बभूव तया रात्रौ मातुः प्रियचिकीर्षया 006c भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् 007a ततो निष्क्रान्तमासाद्य माता पुत्रमथाब्रवीत् 007c अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति 008a निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् 008c प्रोवाचातीन्द्रियज्ञानो विधिना सम्प्रचोदितः 009a नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः 009c महाभागो महावीर्यो महाबुद्धिर्भविष्यति 010a तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः 010c किं तु मातुः स वैगुण्यादन्ध एव भविष्यति 011a तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत् 011c नान्धः कुरूणां नृपतिरनुरूपस्तपोधन 012a ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम् 012c द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि 013a स तथेति प्रतिज्ञाय निश्चक्राम महातपाः 013c सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् 014a पुनरेव तु सा देवी परिभाष्य स्नुषां ततः 014c ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता 015a ततस्तेनैव विधिना महर्षिस्तामपद्यत 015c अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् 015e विषण्णा पाण्डुसङ्काशा समपद्यत भारत 016a तां भीतां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य पार्थिव 016c व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् 017a यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामपि 017c तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति 018a नाम चास्य तदेवेह भविष्यति शुभानने 018c इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः 019a ततो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत 019c शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् 020a तं माता पुनरेवान्यमेकं पुत्रमयाचत 020c तथेति च महर्षिस्तां मातरं प्रत्यभाषत 021a ततः कुमारं सा देवी प्राप्तकालमजीजनत् 021c पाण्डुं लक्षणसम्पन्नं दीप्यमानमिव श्रिया 021e तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः 022a ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् 022c सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् 022e नाकरोद्वचनं देव्या भयात्सुरसुतोपमा 023a ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सरोपमाम् 023c प्रेषयामास कृष्णाय ततः काशिपतेः सुता 024a दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च 024c संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह 025a कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः 025c तया सहोषितो रात्रिं महर्षिः प्रीयमाणया 026a उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि 026c अयं च ते शुभे गर्भः श्रीमानुदरमागतः 026e धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः 027a स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः 027c धृतराष्ट्रस्य च भ्राता पाण्डोश्चामितबुद्धिमान् 028a धर्मो विदुररूपेण शापात्तस्य महात्मनः 028c माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः 029a स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च 029c तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत 030a एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि 030c जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः