भीष्म उवाच 001
पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये 001a
वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु 001c
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् 002a
विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः 002c
वैशम्पायन उवाच 003
ततः सत्यवती भीष्मं वाचा संसज्जमानया 003a
विहसन्तीव सव्रीडमिदं वचनमब्रवीत् 003c
सत्यमेतन्महाबाहो यथा वदसि भारत 004a
विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य च 004c
न ते शक्यमनाख्यातुमापद्धीयं तथाविधा 004e
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः 005a
तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् 005c
धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम 006a
सा कदाचिदहं तत्र गता प्रथमयौवने 006c
अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः 007a
आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् 007c
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा 008a
सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु 008c
तमहं शापभीता च पितुर्भीता च भारत 009a
वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे 009c
अभिभूय स मां बालां तेजसा वशमानयत् 010a
तमसा लोकमावृत्य नौगतामेव भारत 010c
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः 011a
तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः 011c
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् 012a
द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि 012c
पाराशर्यो महायोगी स बभूव महानृषिः 013a
कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः 013c
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः 014a
लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च 014c
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः 015a
स नियुक्तो मया व्यक्तं त्वया च अमितद्युते 015c
भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति 015e
स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति 016a
तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि 016c
तव ह्यनुमते भीष्म नियतं स महातपाः 017a
विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति 017c
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् 018a
धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति 018c
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् 019a
कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् 019c
यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान् 019e
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः 020a
उक्तं भवत्या यच्छ्रेयः परमं रोचते मम 020c
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन 021a
कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् 021c
स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् 022a
प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन 022c
तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् 023a
परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च 023c
मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् 023e
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च 024a
मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् 024c
भवत्या यदभिप्रेतं तदहं कर्तुमागतः 025a
शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव 025c
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये 026a
स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् 026c
तमासनगतं माता पृष्ट्वा कुशलमव्ययम् 027a
सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् 027c
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे 028a
तेषां पिता यथा स्वामी तथा माता न संशयः 028c
विधातृविहितः स त्वं यथा मे प्रथमः सुतः 029a
विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः 029c
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः 030a
भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे 030c
अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः 031a
बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने 031c
स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च 032a
भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ 032c
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च 033a
आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि 033c
यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे 034a
रूपयौवनसम्पन्ने पुत्रकामे च धर्मतः 034c
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक 035a
अनुरूपं कुलस्यास्य सन्तत्याः प्रसवस्य च 035c
व्यास उवाच 036
वेत्थ धर्मं सत्यवति परं चापरमेव च 036a
यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः 036c
तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् 037a
ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् 037c
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् 038a
व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया 038c
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः 039a
न हि मामव्रतोपेता उपेयात्काचिदङ्गना 039c
सत्यवत्युवाच 040
यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु 040a
अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः 040c
कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो 041a
तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति 041c
व्यास उवाच 042
यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् 042a
विरूपतां मे सहतामेतदस्याः परं व्रतम् 042c
यदि मे सहते गन्धं रूपं वेषं तथा वपुः 043a
अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् 043c
वैशम्पायन उवाच 044
समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः 044a
ततोऽभिगम्य सा देवी स्नुषां रहसि सङ्गताम् 044c
धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् 044e
कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे 045a
भरतानां समुच्छेदो व्यक्तं मद्भाग्यसङ्क्षयात् 045c
व्यथितां मां च सम्प्रेक्ष्य पितृवंशं च पीडितम् 046a
भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये 046c
सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह 047a
नष्टं च भारतं वंशं पुनरेव समुद्धर 047c
पुत्रं जनय सुश्रोणि देवराजसमप्रभम् 048a
स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः 048c
सा धर्मतोऽनुनीयैनां कथञ्चिद्धर्मचारिणीम् 049a
भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा 049c