भीष्म उवाच 001
जामदग्न्येन रामेण पितुर्वधममृष्यता 001a
क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः 001c
शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै 001e
पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता 002a
निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् 002c
एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना 003a
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा 003c
ततः सम्भूय सर्वाभिः क्षत्रियाभिः समन्ततः 004a
उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः 004c
पाणिग्राहस्य तनय इति वेदेषु निश्चितम् 005a
धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः 005c
लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः 005e
अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा 006a
ममता नाम तस्यासीद्भार्या परमसम्मता 006c
उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् 007a
बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत 007c
उवाच ममता तं तु देवरं वदतां वरम् 008a
अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यतामिति 008c
अयं च मे महाभाग कुक्षावेव बृहस्पते 009a
औतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत 009c
अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि 010a
तस्मादेवङ्गतेऽद्य त्वमुपारमितुमर्हसि 010c
एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः 011a
कामात्मानं तदात्मानं न शशाक नियच्छितुम् 011c
सम्बभूव ततः कामी तया सार्धमकामया 012a
उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत 012c
भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र सम्भवः 013a
अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः 013c
शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः 014a
उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः 014c
यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति 015a
एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि 015c
स वै दीर्घतमा नाम शापादृषिरजायत 016a
बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा 016c
स पुत्राञ्जनयामास गौतमादीन्महायशाः 017a
ऋषेरुतथ्यस्य तदा सन्तानकुलवृद्धये 017c
लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः 018a
काष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन् 018c
न स्यादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते 019a
चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् 019c
सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततः 020a
जगाम सुबहून्देशानन्धस्तेनोडुपेन ह 020c
तं तु राजा बलिर्नाम सर्वधर्मविशारदः 021a
अपश्यन्मज्जनगतः स्रोतसाभ्याशमागतम् 021c
जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः 022a
ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ 022c
सन्तानार्थं महाभाग भार्यासु मम मानद 023a
पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि 023c
एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः 024a
तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा 024c
अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह 025a
स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा 025c
तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी 026a
जनयामास धर्मात्मा पुत्रानेकादशैव तु 026c
काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः 027a
उवाच तमृषिं राजा ममैत इति वीर्यवान् 027c
नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन् 028a
शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः 028c
अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव 029a
अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे 029c
ततः प्रसादयामास पुनस्तमृषिसत्तमम् 030a
बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः 030c
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् 031a
भविष्यति कुमारस्ते तेजस्वी सत्यवागिति 031c
तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायत 032a
एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि 032c
जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः 033a
एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् 033c