वैशम्पायन उवाच 001
हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ 001a
पालयामास तद्राज्यं सत्यवत्या मते स्थितः 001c
सम्प्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम् 002a
भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् 002c
अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाः 003a
शुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम् 003c
ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् 004a
जगामानुमते मातुः पुरीं वाराणसीं प्रति 004c
तत्र राज्ञः समुदितान्सर्वतः समुपागतान् 005a
ददर्श कन्यास्ताश्चैव भीष्मः शन्तनुनन्दनः 005c
कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः 006a
भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः 006c
उवाच च महीपालान्राजञ्जलदनिःस्वनः 007a
रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः 007c
आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः 008a
अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि 008c
प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि 009a
वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च 009c
प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते 010a
अष्टमं तमथो वित्त विवाहं कविभिः स्मृतम् 010c
स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च 011a
प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः 011c
ता इमाः पृथिवीपाला जिहीर्षामि बलादितः 012a
ते यतध्वं परं शक्त्या विजयायेतराय वा 012c
स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः 012e
एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् 013a
सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम् 013c
आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः 013e
ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः 014a
संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् 014c
तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् 015a
आमुञ्चतां च वर्माणि सम्भ्रमः सुमहानभूत् 015c
ताराणामिव सम्पातो बभूव जनमेजय 016a
भूषणानां च शुभ्राणां कवचानां च सर्वशः 016c
सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः 017a
सक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा 017c
सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान् 018a
रथानास्थाय ते वीराः सर्वप्रहरणान्विताः 018c
प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः 018e
ततः समभवद्युद्धं तेषां तस्य च भारत 019a
एकस्य च बहूनां च तुमुलं लोमहर्षणम् 019c
ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन् 020a
अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् 020c
ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन् 021a
ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः 021c
स तद्बाणमयं वर्षं शरैरावार्य सर्वतः 022a
ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः 022c
तस्याति पुरुषानन्याँल्लाघवं रथचारिणः 023a
रक्षणं चात्मनः सङ्ख्ये शत्रवोऽप्यभ्यपूजयन् 023c
तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदः 024a
कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति 024c
ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः 025a
अभ्याहनदमेयात्मा भीष्मं शान्तनवं रणे 025c
वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा 026a
वाशितामनुसनम्प्राप्तो यूथपो बलिनां वरः 026c
स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः 027a
शाल्वराजो महाबाहुरमर्षेणाभिचोदितः 027c
ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः 028a
तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् 028c
क्षत्रधर्मं समास्थाय व्यपेतभयसम्भ्रमः 029a
निवर्तयामास रथं शाल्वं प्रति महारथः 029c
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते 030a
प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे 030c
तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे 031a
अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ 031c
ततो भीष्मं शान्तनवं शरैः शतसहस्रशः 032a
शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः 032c
पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः 033a
विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन् 033c
लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः 034a
अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः 034c
क्षत्रियाणां तदा वाचः श्रुत्वा परपुरञ्जयः 035a
क्रुद्धः शान्तनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत 035c
सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः 036a
यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् 036c
ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः 037a
तेनाश्वांश्चतुरोऽमृद्नाच्छाल्वराज्ञो नराधिप 037c
अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः 038a
भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् 038c
अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् 038e
कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा 039a
जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् 039c
ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ 039e
राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः 040a
स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जय 040c
एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः 041a
प्रययौ हास्तिनपुरं यत्र राजा स कौरवः 041c
सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप 042a
वनानि सरितश्चैव शैलांश्च विविधद्रुमान् 042c
अक्षतः क्षपयित्वारीन्सङ्ख्येऽसङ्ख्येयविक्रमः 043a
आनयामास काश्यस्य सुताः सागरगासुतः 043c
स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः 044a
यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् 044c
ताः सर्वा गुणसम्पन्ना भ्राता भ्रात्रे यवीयसे 045a
भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः 045c
सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् 046a
भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे 046c
सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् 046e
विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता 047a
ज्येष्ठा तासामिदं वाक्यमब्रवीद्ध सती तदा 047c
मया सौभपतिः पूर्वं मनसाभिवृतः पतिः 048a
तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः 048c
मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे 049a
एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर 049c
एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि 050a
चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः 050c
स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैः 051a
अनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम् 051c
अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे 052a
भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा 052c
तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितः 053a
विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत 053c
ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे 054a
रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे 054c
आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते 055a
विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते 055c
स चाश्विरूपसदृशो देवसत्त्वपराक्रमः 056a
सर्वासामेव नारीणां चित्तप्रमथनोऽभवत् 056c
ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः 057a
विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत 057c
सुहृदां यतमानानामाप्तैः सह चिकित्सकैः 058a
जगामास्तमिवादित्यः कौरव्यो यमसादनम् 058c
प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् 059a
राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः 059c
ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः 059e