वैशम्पायन उवाच 001
ततो विवाहे निर्वृत्ते स राजा शन्तनुर्नृपः 001a
तां कन्यां रूपसम्पन्नां स्वगृहे सन्न्यवेशयत् 001c
ततः शान्तनवो धीमान्सत्यवत्यामजायत 002a
वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति 002c
अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः 003a
विचित्रवीर्यं राजानं जनयामास वीर्यवान् 003c
अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ 004a
स राजा शन्तनुर्धीमान्कालधर्ममुपेयिवान् 004c
स्वर्गते शन्तनौ भीष्मश्चित्राङ्गदमरिन्दमम् 005a
स्थापयामास वै राज्ये सत्यवत्या मते स्थितः 005c
स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् 006a
मनुष्यं न हि मेने स कञ्चित्सदृशमात्मनः 006c
तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा 007a
गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा 007c
तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह 007e
तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः 008a
नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः 008c
तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले 009a
मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् 009c
चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् 010a
अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः 010c
तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि 011a
भीष्मः शान्तनवो राजन्प्रेतकार्याण्यकारयत् 011c
विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् 012a
कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् 012c
विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः 013a
अन्वशासन्महाराज पितृपैतामहं पदम् 013c
स धर्मशास्त्रकुशलो भीष्मं शान्तनवं नृपः 014a
पूजयामास धर्मेण स चैनं प्रत्यपालयत् 014c