वैशम्पायन उवाच 001
स एवं शन्तनुर्धीमान्देवराजर्षिसत्कृतः 001a
धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः 001c
दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् 002a
नित्यान्यासन्महासत्त्वे शन्तनौ पुरुषर्षभे 002c
एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः 003a
आसीद्भरतवंशस्य गोप्ता साधुजनस्य च 003c
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः 004a
धर्म एव परः कामादर्थाच्चेति व्यवस्थितः 004c
एतान्यासन्महासत्त्वे शन्तनौ भरतर्षभ 005a
न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत् 005c
वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम् 006a
तं महीपा महीपालं राजराज्येऽभ्यषेचयन् 006c
वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः 007a
प्रति भारतगोप्तारं समपद्यन्त भूमिपाः 007c
शन्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा 008a
नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत 008c
ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः 009a
ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः 009c
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने 010a
वसन्सागरपर्यन्तामन्वशाद्वै वसुन्धराम् 010c
स देवराजसदृशो धर्मज्ञः सत्यवागृजुः 011a
दानधर्मतपोयोगाच्छ्रिया परमया युतः 011c
अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः 012a
तेजसा सूर्यसङ्काशो वायुवेगसमो जवे 012c
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः 012e
वधः पशुवराहाणां तथैव मृगपक्षिणाम् 013a
शन्तनौ पृथिवीपाले नावर्तत वृथा नृप 013c
धर्मब्रह्मोत्तरे राज्ये शन्तनुर्विनयात्मवान् 014a
समं शशास भूतानि कामरागविवर्जितः 014c
देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः 015a
न चाधर्मेण केषाञ्चित्प्राणिनामभवद्वधः 015c
असुखानामनाथानां तिर्यग्योनिषु वर्तताम् 016a
स एव राजा भूतानां सर्वेषामभवत्पिता 016c
तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति 017a
श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः 017c
स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः 018a
रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः 018c
तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः 019a
गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः 019c
सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च 020a
महाबलो महासत्त्वो महावीर्यो महारथः 020c
स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् 021a
भागीरथीमल्पजलां शन्तनुर्दृष्टवान्नृपः 021c
तां दृष्ट्वा चिन्तयामास शन्तनुः पुरुषर्षभः 022a
स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा 022c
ततो निमित्तमन्विच्छन्ददर्श स महामनाः 023a
कुमारं रूपसम्पन्नं बृहन्तं चारुदर्शनम् 023c
दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम् 024a
कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् 024c
तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके 025a
अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् 025c
जातमात्रं पुरा दृष्टं तं पुत्रं शन्तनुस्तदा 026a
नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् 026c
स तु तं पितरं दृष्ट्वा मोहयामास मायया 027a
सम्मोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत 027c
तदद्भुतं तदा दृष्ट्वा तत्र राजा स शन्तनुः 028a
शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह 028c
दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् 029a
गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम् 029c
अलङ्कृतामाभरणैररजोम्बरधारिणीम् 030a
दृष्टपूर्वामपि सतीं नाभ्यजानात्स शन्तनुः 030c
गङ्गोवाच 031
यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः 031a
स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् 031c
वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान् 032a
कृतास्त्रः परमेष्वासो देवराजसमो युधि 032c
सुराणां सम्मतो नित्यमसुराणां च भारत 033a
उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः 033c
तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः 034a
यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् 034c
034e तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि
ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् 035a
यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम् 035c
महेष्वासमिमं राजन्राजधर्मार्थकोविदम् 036a
मया दत्तं निजं पुत्रं वीरं वीर गृहान्नय 036c
वैशम्पायन उवाच 037
तयैवं समनुज्ञातः पुत्रमादाय शन्तनुः 037a
भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति 037c
पौरवः स्वपुरं गत्वा पुरन्दरपुरोपमम् 038a
सर्वकामसमृद्धार्थं मेने आत्मानमात्मना 038c
038e पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत्
पौरवाञ्शन्तनोः पुत्रः पितरं च महायशाः 039a
राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ 039c
स तथा सह पुत्रेण रममाणो महीपतिः 040a
वर्तयामास वर्षाणि चत्वार्यमितविक्रमः 040c
स कदाचिद्वनं यातो यमुनामभितो नदीम् 041a
महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् 041c
तस्य प्रभवमन्विच्छन्विचचार समन्ततः 042a
स ददर्श तदा कन्यां दाशानां देवरूपिणीम् 042c
तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् 043a
कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि 043c
साब्रवीद्दाशकन्यास्मि धर्मार्थं वाहये तरीम् 044a
पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः 044c
रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम् 045a
समीक्ष्य राजा दाशेयीं कामयामास शन्तनुः 045c
स गत्वा पितरं तस्या वरयामास तां तदा 046a
पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात् 046c
स च तं प्रत्युवाचेदं दाशराजो महीपतिम् 047a
जातमात्रैव मे देया वराय वरवर्णिनी 047c
हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर 047e
यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ 048a
सत्यवागसि सत्येन समयं कुरु मे ततः 048c
समयेन प्रदद्यां ते कन्यामहमिमां नृप 049a
न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति 049c
शन्तनुरुवाच 050
श्रुत्वा तव वरं दाश व्यवस्येयमहं न वा 050a
दातव्यं चेत्प्रदास्यामि न त्वदेयं कथञ्चन 050c
दाश उवाच 051
अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः 051a
त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव 051c
वैशम्पायन उवाच 052
नाकामयत तं दातुं वरं दाशाय शन्तनुः 052a
शरीरजेन तीव्रेण दह्यमानोऽपि भारत 052c
स चिन्तयन्नेव तदा दाशकन्यां महीपतिः 053a
प्रत्ययाद्धास्तिनपुरं शोकोपहतचेतनः 053c
ततः कदाचिच्छोचन्तं शन्तनुं ध्यानमास्थितम् 054a
पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् 054c
सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः 055a
तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः 055c
055e ध्यायन्निव च किं राजन्नाभिभाषसि किञ्चन
एवमुक्तः स पुत्रेण शन्तनुः प्रत्यभाषत 056a
असंशयं ध्यानपरं यथा मात्थ तथास्म्युत 056c
अपत्यं नस्त्वमेवैकः कुले महति भारत 057a
अनित्यता च मर्त्यानामतः शोचामि पुत्रक 057c
कथञ्चित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् 058a
असंशयं त्वमेवैकः शतादपि वरः सुतः 058c
न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे 059a
सन्तानस्याविनाशाय कामये भद्रमस्तु ते 059c
अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः 059e
अग्निहोत्रं त्रयो वेदा यज्ञाश्च सहदक्षिणाः 060a
सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् 060c
एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि 061a
यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः 061c
एषा त्रयी पुराणानामुत्तमानां च शाश्वती 061e
त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत 062a
नान्यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ 062c
सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् 063a
इति ते कारणं तात दुःखस्योक्तमशेषतः 063c
ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः 064a
देवव्रतो महाबुद्धिः प्रययावनुचिन्तयन् 064c
अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम् 065a
तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम् 065c
तस्मै स कुरुमुख्याय यथावत्परिपृच्छते 066a
वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ 066c
ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा 067a
अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् 067c
तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च 068a
अब्रवीच्चैनमासीनं राजसंसदि भारत 068c
त्वमेव नाथः पर्याप्तः शन्तनोः पुरुषर्षभ 069a
पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः 069c
को हि सम्बन्धकं श्लाघ्यमीप्सितं यौनमीदृशम् 070a
अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः 070c
अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः 071a
यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी 071c
तेन मे बहुशस्तात पिता ते परिकीर्तितः 072a
अर्हः सत्यवतीं वोढुं सर्वराजसु भारत 072c
असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया 073a
सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः 073c
कन्यापितृत्वात्किञ्चित्तु वक्ष्यामि भरतर्षभ 074a
बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् 074c
यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा 075a
न स जातु सुखं जीवेत्त्वयि क्रुद्धे परन्तप 075c
एतावानत्र दोषो हि नान्यः कश्चन पार्थिव 076a
एतज्जानीहि भद्रं ते दानादाने परन्तप 076c
एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत 077a
शृण्वतां भूमिपालानां पितुरर्थाय भारत 077c
इदं मे मतमादत्स्व सत्यं सत्यवतां वर 078a
नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत् 078c
एवमेतत्करिष्यामि यथा त्वमनुभाषसे 079a
योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति 079c
इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत 080a
चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ 080c
त्वमेव नाथः पर्याप्तः शन्तनोरमितद्युतेः 081a
कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः 081c
इदं तु वचनं सौम्य कार्यं चैव निबोध मे 082a
कौमारिकाणां शीलेन वक्ष्याम्यहमरिन्दम 082c
यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण 083a
राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् 083c
नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन 084a
तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् 084c
तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः 085a
प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया 085c
देवव्रत उवाच 086
दाशराज निबोधेदं वचनं मे नृपोत्तम 086a
शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते 086c
राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिप 087a
अपत्यहेतोरपि च करोम्येष विनिश्चयम् 087c
अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति 088a
अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि 088c
वैशम्पायन उवाच 089
तस्य तद्वचनं श्रुत्वा सम्प्रहृष्टतनूरुहः 089a
ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत 089c
ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा 090a
अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् 090c
ततः स पितुरर्थाय तामुवाच यशस्विनीम् 091a
अधिरोह रथं मातर्गच्छावः स्वगृहानिति 091c
एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम् 092a
आगम्य हास्तिनपुरं शन्तनोः सन्न्यवेदयत् 092c
तस्य तद्दुष्करं कर्म प्रशशंसुर्नराधिपाः 093a
समेताश्च पृथक्चैव भीष्मोऽयमिति चाब्रुवन् 093c
तद्दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शन्तनुः 094a
स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् 094c