शन्तनुरुवाच 001
आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् 001a
यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः 001c
अनेन च कुमारेण गङ्गादत्तेन किं कृतम् 002a
यस्य चैव कृतेनायं मानुषेषु निवत्स्यति 002c
ईशानाः सर्वलोकस्य वसवस्ते च वै कथम् 003a
मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि 003c
वैशम्पायन उवाच 004
सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् 004a
भर्तारं जाह्नवी देवी शन्तनुं पुरुषर्षभम् 004c
यं लेभे वरुणः पुत्रं पुरा भरतसत्तम 005a
वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत 005c
तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् 006a
मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् 006c
स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम 007a
वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके 007c
दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता 008a
गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ 008c
अनुग्रहार्थं जगतः सर्वकामदुघां वराम् 009a
तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः 009c
सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते 010a
चचार रम्ये धर्म्ये च गौरपेतभया तदा 010c
अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ 011a
पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् 011c
ते सदारा वनं तच्च व्यचरन्त समन्ततः 012a
रेमिरे रमणीयेषु पर्वतेषु वनेषु च 012c
तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम 013a
सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा 013c
या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा 013e
सा विस्मयसमाविष्टा शीलद्रविणसम्पदा 014a
दिवे वै दर्शयामास तां गां गोवृषभेक्षण 014c
स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् 015a
उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च 015c
एवङ्गुणसमायुक्तां वसवे वसुनन्दिनी 016a
दर्शयामास राजेन्द्र पुरा पौरवनन्दन 016c
द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम 017a
उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् 017c
एषा गौरुत्तमा देवि वारुणेरसितेक्षणे 018a
ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् 018c
अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे 019a
दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः 019c
एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा 020a
तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् 020c
अस्ति मे मानुषे लोके नरदेवात्मजा सखी 021a
नाम्ना जिनवती नाम रूपयौवनशालिनी 021c
उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः 022a
दुहिता प्रथिता लोके मानुषे रूपसम्पदा 022c
तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् 023a
आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन 023c
यावदस्याः पयः पीत्वा सा सखी मम मानद 024a
मानुषेषु भवत्वेका जरारोगविवर्जिता 024c
एतन्मम महाभाग कर्तुमर्हस्यनिन्दित 025a
प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथञ्चन 025c
एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया 026a
पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् 026c
तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप 027a
ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् 027c
हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः 027e
अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः 028a
न चापश्यत गां तत्र सवत्सां काननोत्तमे 028c
ततः स मृगयामास वने तस्मिंस्तपोधनः 029a
नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः 029c
ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः 030a
ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा 030c
यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् 031a
तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः 031c
एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः 032a
वशं कोपस्य सम्प्राप्त आपवो भरतर्षभ 032c
शप्त्वा च तान्महाभागस्तपस्येव मनो दधे 033a
एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः 033c
महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः 033e
अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः 034a
शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः 034c
प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ 035a
न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् 035c
आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् 035e
उवाच च स धर्मात्मा सप्त यूयं धरादयः 036a
अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ 036c
अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति 037a
द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा 037c
नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम् 038a
न प्रजास्यति चाप्येष मानुषेषु महामनाः 038c
भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः 039a
पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति 039c
एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः 039e
ततो मामुपजग्मुस्ते समस्ता वसवस्तदा 040a
अयाचन्त च मां राजन्वरं स च मया कृतः 040c
जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि 040e
एवं तेषामहं सम्यक्शप्तानां राजसत्तम 041a
मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् 041c
अयं शापादृषेस्तस्य एक एव नृपोत्तम 042a
द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत 042c
एतदाख्याय सा देवी तत्रैवान्तरधीयत 043a
आदाय च कुमारं तं जगामाथ यथेप्सितम् 043c
स तु देवव्रतो नाम गाङ्गेय इति चाभवत् 044a
द्विनामा शन्तनोः पुत्रः शन्तनोरधिको गुणैः 044c
शन्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः 045a
तस्याहं कीर्तयिष्यामि शन्तनोरमितान्गुणान् 045c
महाभाग्यं च नृपतेर्भारतस्य यशस्विनः 046a
यस्येतिहासो द्युतिमान्महाभारतमुच्यते 046c