वैशम्पायन उवाच 001
ततः प्रतीपो राजा स सर्वभूतहिते रतः 001a
निषसाद समा बह्वीर्गङ्गातीरगतो जपन् 001c
तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी 002a
उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः 002c
अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी 003a
दक्षिणं शालसङ्काशमूरुं भेजे शुभानना 003c
प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम् 004a
करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् 004c
स्त्र्युवाच 005
त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम् 005a
त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः 005c
प्रतीप उवाच 006
नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि 006a
न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम् 006c
स्त्र्युवाच 007
नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित् 007a
भज मां भजमानां त्वं राजन्कन्यां वरस्त्रियम् 007c
प्रतीप उवाच 008
मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम् 008a
अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः 008c
प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने 009a
अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् 009c
सव्यतः कामिनीभागस्त्वया स च विवर्जितः 010a
तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने 010c
स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम् 011a
स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता 011c
स्त्र्युवाच 012
एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते 012a
त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् 012c
पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् 013a
गुणा न हि मया शक्या वक्तुं वर्षशतैरपि 013c
कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम् 013e
स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो 014a
तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् 014c
एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम् 015a
पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः 015c
वैशम्पायन उवाच 016
तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत 016a
पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारयत् 016c
एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः 017a
तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन 017c
तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः 018a
शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शन्तनुः 018c
संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा 019a
पुण्यकर्मकृदेवासीच्छन्तनुः कुरुसत्तम 019c
प्रतीपः शन्तनुं पुत्रं यौवनस्थं ततोऽन्वशात् 020a
पुरा मां स्त्री समभ्यागाच्छन्तनो भूतये तव 020c
त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी 021a
कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया 021c
सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने 021e
यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ 022a
मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् 022c
एवं सन्दिश्य तनयं प्रतीपः शन्तनुं तदा 023a
स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह 023c
स राजा शन्तनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः 024a
बभूव मृगयाशीलः सततं वनगोचरः 024c
स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः 025a
गङ्गामनुचचारैकः सिद्धचारणसेविताम् 025c
स कदाचिन्महाराज ददर्श परमस्त्रियम् 026a
जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रियम् 026c
सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् 027a
सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम् 027c
तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसम्पदा 028a
पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः 028c
सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् 029a
स्नेहादागतसौहार्दा नातृप्यत विलासिनी 029c
तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा 030a
देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः 030c
यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे 031a
या वा त्वं सुरगर्भाभे भार्या मे भव शोभने 031c
एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च 032a
वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता 032c
उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा 033a
भविष्यामि महीपाल महिषी ते वशानुगा 033c
यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम् 034a
न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम् 034c
एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव 035a
वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् 035c
तथेति राज्ञा सा तूक्ता तदा भरतसत्तम 036a
प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् 036c
आसाद्य शन्तनुस्तां च बुभुजे कामतो वशी 037a
न प्रष्टव्येति मन्वानो न स तां किञ्चिदूचिवान् 037c
स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च 038a
उपचारेण च रहस्तुतोष जगतीपतिः 038c
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी 039a
मानुषं विग्रहं श्रीमत्कृत्वा सा वरवर्णिनी 039c
भाग्योपनतकामस्य भार्येवोपस्थिताभवत् 040a
शन्तनो राजसिंहस्य देवराजसमद्युतेः 040c
सम्भोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः 041a
राजानं रमयामास यथा रेमे तथैव सः 041c
स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः 042a
संवत्सरानृतून्मासान्न बुबोध बहून्गतान् 042c
रममाणस्तया सार्धं यथाकामं जनेश्वरः 043a
अष्टावजनयत्पुत्रांस्तस्याममरवर्णिनः 043c
जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत 044a
प्रीणामि त्वाहमित्युक्त्वा गङ्गास्रोतस्यमज्जयत् 044c
तस्य तन्न प्रियं राज्ञः शन्तनोरभवत्तदा 045a
न च तां किञ्चनोवाच त्यागाद्भीतो महीपतिः 045c
अथ तामष्टमे पुत्रे जाते प्रहसितामिव 046a
उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः 046c
मा वधीः कासि कस्यासि किं हिंससि सुतानिति 047a
पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते 047c
स्त्र्युवाच 048
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर 048a
जीर्णस्तु मम वासोऽयं यथा स समयः कृतः 048c
अहं गङ्गा जह्नुसुता महर्षिगणसेविता 049a
देवकार्यार्थसिद्ध्यर्थमुषिताहं त्वया सह 049c
अष्टेमे वसवो देवा महाभागा महौजसः 050a
वसिष्ठशापदोषेण मानुषत्वमुपागताः 050c
तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते 051a
मद्विधा मानुषी धात्री न चैवास्तीह काचन 051c
तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता 052a
जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः 052c
देवानां समयस्त्वेष वसूनां संश्रुतो मया 053a
जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति 053c
तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः 054a
स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् 054c
एष पर्यायवासो मे वसूनां सन्निधौ कृतः 055a
मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम् 055c