इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः 001a
महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः 001c
सोऽश्वमेधसहस्रेण वाजपेयशतेन च 002a
तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः 002c
ततः कदाचिद्ब्रह्माणमुपासां चक्रिरे सुराः 003a
तत्र राजर्षयो आसन्स च राजा महाभिषः 003c
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् 004a
तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् 004c
ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा 005a
महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् 005c
अपध्यातो भगवता ब्रह्मणा स महाभिषः 006a
उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि 006c
स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान् 007a
प्रतीपं रोचयामास पितरं भूरिवर्चसम् 007c
महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम् 008a
तमेव मनसाध्यायमुपावर्तत्सरिद्वरा 008c
सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः 009a
ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः 009c
तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा 010a
किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् 010c
तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि 011a
अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना 011c
विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम् 012a
सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा 012c
तेन कोपाद्वयं शप्ता योनौ सम्भवतेति ह 013a
न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना 013c
त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि 014a
न मानुषीणां जठरं प्रविशेमाशुभं वयम् 014c
इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम् 015a
मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति 015c
वसव ऊचुः 016
प्रतीपस्य सुतो राजा शन्तनुर्नाम धार्मिकः 016a
भविता मानुषे लोके स नः कर्ता भविष्यति 016c
गङ्गोवाच 017
ममाप्येवं मतं देवा यथावदत मानघाः 017a
प्रियं तस्य करिष्यामि युष्माकं चैतदीप्सितम् 017c
वसव ऊचुः 018
जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि 018a
यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे 018c
गङ्गोवाच 019
एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् 019a
नास्य मोघः सङ्गमः स्यात्पुत्रहेतोर्मया सह 019c
वसव ऊचुः 020
तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् 020a
तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः 020c
न सम्पत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः 021a
तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् 021c
वैशम्पायन उवाच 022
एवं ते समयं कृत्वा गङ्गया वसवः सह 022a
जग्मुः प्रहृष्टमनसो यथासङ्कल्पमञ्जसा 022c