जनमेजय उवाच 001
श्रुतस्त्वत्तो मया विप्र पूर्वेषां सम्भवो महान् 001a
उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः 001c
किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति 002a
प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे 002c
एतामेव कथां दिव्यामा प्रजापतितो मनोः 003a
तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् 003c
सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम् 004a
विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् 004c
गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम् 005a
न तृप्यामि कथां शृण्वन्नमृतास्वादसम्मिताम् 005c
वैशम्पायन उवाच 006
शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम् 006a
प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् 006c
दक्षस्यादितिः 007A
अदितेर्विवस्वान् 007B
विवस्वतो मनुः 007C
मनोरिला 007D
इलायाः पुरूरवाः 007E
पुरूरवस आयुः 007F
आयुषो नहुषः 007G
नहुषस्य ययातिः 007H
ययातेर्द्वे भार्ये बभूवतुः 008A
उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम 008B
अत्रानुवंशो भवति 008C
यदुं च तुर्वसुं चैव देवयानी व्यजायत 009A
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी 009B
तत्र यदोर्यादवाः 010A
पूरोः पौरवाः 010B
पूरोर्भार्या कौसल्या नाम 011A
तस्यामस्य जज्ञे जनमेजयो नाम 011B
यस्त्रीनश्वमेधानाजहार 011c
विश्वजिता चेष्ट्वा वनं प्रविवेश 011D
जनमेजयः खल्वनन्तां नामोपयेमे माधवीम् 012a
तस्यामस्य जज्ञे प्राचिन्वान् 012B
यः प्राचीं दिशं जिगाय यावत्सूर्योदयात् 012c
ततस्तस्य प्राचिन्वत्वम् 012D
प्राचिन्वान्खल्वश्मकीमुपयेमे 013a
तस्यामस्य जज्ञे संयातिः 013B
संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे 014a
तस्यामस्य जज्ञे अहम्पातिः 014B
अहम्पातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम 015A
तस्यामस्य जज्ञे सार्वभौमः 015B
सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम 016A
तस्यामस्य जज्ञे जयत्सेनः 016B
जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम 017A
तस्यामस्य जज्ञे अराचीनः 017B
अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम 018A
तस्यामस्य जज्ञे महाभौमः 018B
महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम 019A
तस्यामस्य जज्ञे अयुतनायी 019B
यः पुरुषमेधानामयुतमानयत् 019C
तदस्यायुतनायित्वम् 019D
अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम 020A
तस्यामस्य जज्ञे अक्रोधनः 020B
अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे 021A
तस्यामस्य जज्ञे देवातिथिः 021B
देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम 022A
तस्यामस्य जज्ञे ऋचः 022B
ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम 023A
तस्यां पुत्रमजनयदृक्षम् 023B
ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम 024A
तस्यां पुत्रं मतिनारं नामोत्पादयामास 024B
मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार 025A
निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास 026A
तस्यां पुत्रमजनयत्तंसुं नाम 026B
अत्रानुवंशो भवति 027A
तंसुं सरस्वती पुत्रं मतिनारादजीजनत् 028A
इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् 028C
इलिनस्तु रथन्तर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत् 029A
दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे 030A
तस्यामस्य जज्ञे भरतः 030B
तत्र श्लोकौ भवतः 030C
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः 031a
भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् 031c
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् 032a
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला 032c
ततोऽस्य भरतत्वम् 033A
भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम 034A
तस्यामस्य जज्ञे भुमन्युः 034B
भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम 035A
तस्यामस्य जज्ञे सुहोत्रः 035B
सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम 036A
तस्यामस्य जज्ञे हस्ती 036B
य इदं हास्तिनपुरं मापयामास 036C
एतदस्य हास्तिनपुरत्वम् 036D
हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम 037A
तस्यामस्य जज्ञे विकुण्ठनः 037B
विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम 038A
तस्यामस्य जज्ञेऽजमीढः 038B
अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति 039A
पृथक्पृथग्वंशकरा नृपतयः 039B
तत्र वंशकरः संवरणः 039C
संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे 040A
तस्यामस्य जज्ञे कुरुः 040B
कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम 041A
तस्यामस्य जज्ञे विडूरथः 041B
विडूरथस्तु मागधीमुपयेमे सम्प्रियां नाम 042A
तस्यामस्य जज्ञेऽरुग्वान्नाम 042B
अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम 043A
तस्यामस्य जज्ञे परिक्षित् 043B
परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम 044A
तस्यामस्य जज्ञे भीमसेनः 044B
भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम 045A
तस्यामस्य जज्ञे पर्यश्रवाः 045B
यमाहुः प्रतीपं नाम 045C
प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम 046A
तस्यां पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति 046B
देवापिः खलु बाल एवारण्यं प्रविवेश 047A
शन्तनुस्तु महीपालोऽभवत् 047B
अत्रानुवंशो भवति 047C
यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते 048a
पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः 048c
तदस्य शन्तनुत्वम् 049A
शन्तनुः खलु गङ्गां भागीरथीमुपयेमे 050A
तस्यामस्य जज्ञे देवव्रतः 050B
यमाहुर्भीष्म इति 050C
भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम् 051A
यामाहुर्गन्धकालीति 051B
तस्यां कानीनो गर्भः पराशराद्द्वैपायनः 052A
तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः 052B
चित्राङ्गदो विचित्रवीर्यश्च 052C
तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः 053A
विचित्रवीर्यस्तु राजा समभवत् 053B
विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे 054A
विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः 055A
ततः सत्यवती चिन्तयामास 056A
दौःषन्तो वंश उच्छिद्यते इति 056B
सा द्वैपायनमृषिं चिन्तयामास 057A
स तस्याः पुरतः स्थितः किं करवाणीति 058A
सा तमुवाच 059A
भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः 059B
साध्वपत्यं तस्योत्पादयेति 059C
स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति 060A
तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य 061A
तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति 062A
पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने 063A
अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम् 064A
तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान 064B
स बाणविद्ध उवाच पाण्डुम् 065A
चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति 065B
स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये 066A
वाक्यं चोवाच 067A
स्वचापल्यादिदं प्राप्तवानहम् 067B
शृणोमि च नानपत्यस्य लोका सन्तीति 067C
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच 068A
सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति 069A
स तां हृष्टरूपः पाण्डुरुवाच 070A
070B इयं ते सपत्न्यनपत्या साध्वस्यामपत्यमुत्पाद्यतामिति 070C
स एवमस्त्वित्युक्तः कुन्त्या 071A
ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ 072A
माद्रीं खल्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे 073A
स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः 074A
तत्रैनं चितास्थं माद्री समन्वारुरोह 075A
उवाच कुन्तीम् 076A
यमयोरार्ययाप्रमत्तया भवितव्यमिति 076B
ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः 077A
तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन 078A
ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः 079A
तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः 080A
तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः 081A
पुत्रांश्चोत्पादयामासुः 082A
प्रतिविन्ध्यं युधिष्ठिरः 082B
सुतसोमं वृकोदरः 082C
श्रुतकीर्तिमर्जुनः 082D
शतानीकं नकुलः 082E
श्रुतकर्माणं सहदेव इति 082F
युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे 083A
तस्यां पुत्रं जनयामास यौधेयं नाम 083B
भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम् 084A
तस्यां पुत्रं सर्वगं नामोत्पादयामास 084B
अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत् 085A
तस्यां पुत्रमभिमन्युं नाम जनयामास 085B
नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत् 086A
तस्यां पुत्रं निरमित्रं नामाजनयत् 086B
सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे 087A
तस्यां पुत्रमजनयत्सुहोत्रं नाम 087B
भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास 088A
इत्येते एकादश पाण्डवानां पुत्राः 089A
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे 090A
तस्यामस्य परासुर्गर्भोऽजायत 090B
तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य 091A
षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति 091B
सञ्जीवयित्वा चैनमुवाच 092A
परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति 092B
परिक्षित्तु खलु माद्रवतीं नामोपयेमे 093A
तस्यामस्य जनमेजयः 093B
जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च 094A
शतानीकस्तु खलु वैदेहीमुपयेमे 095A
तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः 095B
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः 096a
पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते 096c