001 जनमेजय उवाच 001a भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान् 001c यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः 002a न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः 002c प्रजाविरहितो वापि भूतपूर्वः कदाचन 003a तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् 003c चरितं श्रोतुमिच्छामि विस्तरेण तपोधन 004 वैशम्पायन उवाच 004a हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि 004c पूरोर्वंशधरान्वीराञ्शक्रप्रतिमतेजसः 005a प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः 005c पूरोः पौष्ट्यामजायन्त प्रवीरस्तत्र वंशकृत् 006a मनस्युरभवत्तस्माच्छूरः श्येनीसुतः प्रभुः 006c पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः 007a सुभ्रूः संहननो वाग्मी सौवीरीतनयास्त्रयः 007c मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः 008a रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः 008c यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः 008e सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः 009a ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान् 009c स्थण्डिलेपुर्वनेपुश्च स्थलेपुश्च महारथः 010a तेजेपुर्बलवान्धीमान्सत्येपुश्चेन्द्रविक्रमः 010c धर्मेपुः सन्नतेपुश्च दशमो देवविक्रमः 010e अनाधृष्टिसुतास्तात राजसूयाश्वमेधिनः 011a मतिनारस्ततो राजा विद्वांश्चर्चेपुतोऽभवत् 011c मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः 011e तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः 012a तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् 012c आजहार यशो दीप्तं जिगाय च वसुन्धराम् 013a इलिनं तु सुतं तंसुर्जनयामास वीर्यवान् 013c सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः 014a रथन्तर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः 014c इलिनो जनयामास दुःषन्तप्रभृतीन्नृप 015a दुःषन्तं शूरभीमौ च प्रपूर्वं वसुमेव च 015c तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय 016a दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः 016c तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः 017a भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत् 017c नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत 018a ततो महद्भिः क्रतुभिरीजानो भरतस्तदा 018c लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत 019a ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः 019c भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् 020a ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत् 020c ततः स वितथो नाम भुमन्योरभवत्सुतः 021a सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा 021c पुष्करिण्यामृचीकस्य भुमन्योरभवन्सुताः 022a तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् 022c राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः 023a सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम् 023c पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम् 024a ममज्जेव मही तस्य भूरिभारावपीडिता 024c हस्त्यश्वरथसम्पूर्णा मनुष्यकलिला भृशम् 025a सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः 025c चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः 025e प्रवृद्धजनसस्या च सहदेवा व्यरोचत 026a ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः 026c अजमीढं सुमीढं च पुरुमीढं च भारत 027a अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः 027c षट्पुत्रान्सोऽप्यजनयत्तिसृषु स्त्रीषु भारत 028a ऋक्षं धूमिन्यथो नीली दुःषन्तपरमेष्ठिनौ 028c केशिन्यजनयज्जह्नुमुभौ च जनरूपिणौ 029a तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः 029c अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः 030a जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् 030c ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव 031a आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम् 031c सङ्क्षयः सुमहानासीत्प्रजानामिति शुश्रुमः 032a व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तथा 032c क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् 032e अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च 033a चालयन्वसुधां चैव बलेन चतुरङ्गिणा 033c अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् 033e अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् 034a ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः 034c राजा संवरणस्तस्मात्पलायत महाभयात् 035a सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा 035c नदीविषयपर्यन्ते पर्वतस्य समीपतः 035e तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः 036a तेषां निवसतां तत्र सहस्रं परिवत्सरान् 036c अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः 037a तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च 037c अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा 037e निवेद्य सर्वमृषये सत्कारेण सुवर्चसे 038a तं समामष्टमीमुष्टं राजा वव्रे स्वयं तदा 038c पुरोहितो भवान्नोऽस्तु राज्याय प्रयतामहे 038e ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत 039a अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् 039c विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् 040a भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् 040c पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः 041a ततः स पृथिवीं प्राप्य पुनरीजे महाबलः 041c आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः 042a ततः संवरणात्सौरी सुषुवे तपती कुरुम् 042c राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे 043a तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् 043c कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः 044a अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम् 044c जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः 044e पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी 045a अभिष्वतः परिक्षित्तु शबलाश्वश्च वीर्यवान् 045c अभिराजो विराजश्च शल्मलश्च महाबलः 046a उच्चैःश्रवा भद्रकारो जितारिश्चाष्टमः स्मृतः 046c एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः 047a जनमेजयादयः सप्त तथैवान्ये महाबलाः 047c परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः 048a कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्यवान् 048c इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः 049a जनमेजयस्य तनया भुवि ख्याता महाबलाः 049c धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च 050a निषधश्च महातेजास्तथा जाम्बूनदो बली 050c कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः 050e सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः 051a धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः 051c हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः 051e हविःश्रवास्तथेन्द्राभः सुमन्युश्चापराजितः 052a प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ 052c देवापिः शन्तनुश्चैव बाह्लीकश्च महारथः 053a देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सया 053c शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः 054a भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः 054c देवर्षिकल्पा नृपते बहवो राजसत्तमाः 055a एवंविधाश्चाप्यपरे देवकल्पा महारथाः 055c जाता मनोरन्ववाये ऐलवंशविवर्धनाः