001 वसुमना उवाच 001a पृच्छामि त्वां वसुमना रौशदश्विर्यद्यस्ति लोको दिवि मह्यं नरेन्द्र 001c यद्यन्तरिक्षे प्रथितो महात्मन्क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये 002 ययातिरुवाच 002a यदन्तरिक्षं पृथिवी दिशश्च; यत्तेजसा तपते भानुमांश्च 002c लोकास्तावन्तो दिवि संस्थिता वै; ते नान्तवन्तः प्रतिपालयन्ति 003 वसुमना उवाच 003a तांस्ते ददामि पत मा प्रपातं; ये मे लोकास्तव ते वै भवन्तु 003c क्रीणीष्वैनांस्तृणकेनापि राजन्प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः 004 ययातिरुवाच 004a न मिथ्याहं विक्रयं वै स्मरामि; वृथा गृहीतं शिशुकाच्छङ्कमानः 004c कुर्यां न चैवाकृतपूर्वमन्यैर्विवित्समानः किमु तत्र साधु 005 वसुमना उवाच 005a तांस्त्वं लोकान्प्रतिपद्यस्व राजन्मया दत्तान्यदि नेष्टः क्रयस्ते 005c अहं न तान्वै प्रतिगन्ता नरेन्द्र; सर्वे लोकास्तव ते वै भवन्तु 006 शिबिरुवाच 006a पृच्छामि त्वां शिबिरौशीनरोऽहं; ममापि लोका यदि सन्तीह तात 006c यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये 007 ययातिरुवाच 007a न त्वं वाचा हृदयेनापि विद्वन्परीप्समानान्नावमंस्था नरेन्द्र 007c तेनानन्ता दिवि लोकाः श्रितास्ते; विद्युद्रूपाः स्वनवन्तो महान्तः 008 शिबिरुवाच 008a तांस्त्वं लोकान्प्रतिपद्यस्व राजन्मया दत्तान्यदि नेष्टः क्रयस्ते 008c न चाहं तान्प्रतिपत्स्येह दत्त्वा; यत्र गत्वा त्वमुपास्से ह लोकान् 009 ययातिरुवाच 009a यथा त्वमिन्द्रप्रतिमप्रभावस्ते चाप्यनन्ता नरदेव लोकाः 009c तथाद्य लोके न रमेऽन्यदत्ते; तस्माच्छिबे नाभिनन्दामि दायम् 010 अष्टक उवाच 010a न चेदेकैकशो राजल्ँलोकान्नः प्रतिनन्दसि 010c सर्वे प्रदाय भवते गन्तारो नरकं वयम् 011 ययातिरुवाच 011a यदर्हाय ददध्वं तत्सन्तः सत्यानृशंस्यतः 011c अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा 012 अष्टक उवाच 012a कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः 012c उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव 013 ययातिरुवाच 013a युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः 013c उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव 014 अष्टक उवाच 014a आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा 014c वयमप्यनुयास्यामो यदा कालो भविष्यति 015 ययातिरुवाच 015a सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वयम् 015c एष नो विरजाः पन्था दृश्यते देवसद्मनः 016 वैशम्पायन उवाच 016a तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः 016c आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी 017 अष्टक उवाच 017a अहं मन्ये पूर्वमेकोऽस्मि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा 017c कस्मादेवं शिबिरौशीनरोऽयमेकोऽत्यगात्सर्ववेगेन वाहान् 018 ययातिरुवाच 018a अददाद्देवयानाय यावद्वित्तमविन्दत 018c उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि नः शिबिः 019a दानं तपः सत्यमथापि धर्मो; ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा 019c राजन्नेतान्यप्रतिमस्य राज्ञः; शिबेः स्थितान्यनृशंसस्य बुद्ध्या 019e एवंवृत्तो ह्रीनिषेधश्च यस्मात्तस्माच्छिबिरत्यगाद्वै रथेन 020 वैशम्पायन उवाच 020a अथाष्टकः पुनरेवान्वपृच्छन्मातामहं कौतुकादिन्द्रकल्पम् 020c पृच्छामि त्वां नृपते ब्रूहि सत्यं; कुतश्च कस्यासि सुतश्च कस्य 020e कृतं त्वया यद्धि न तस्य कर्ता; लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा 021 ययातिरुवाच 021a ययातिरस्मि नहुषस्य पुत्रः; पूरोः पिता सार्वभौमस्त्विहासम् 021c गुह्यमर्थं मामकेभ्यो ब्रवीमि; मातामहोऽहं भवतां प्रकाशः 022a सर्वामिमां पृथिवीं निर्जिगाय; प्रस्थे बद्ध्वा ह्यददं ब्राह्मणेभ्यः 022c मेध्यानश्वानेकशफान्सुरूपांस्तदा देवाः पुण्यभाजो भवन्ति 023a अदामहं पृथिवीं ब्राह्मणेभ्यः; पूर्णामिमामखिलां वाहनस्य 023c गोभिः सुवर्णेन धनैश्च मुख्यैस्तत्रासन्गाः शतमर्बुदानि 024a सत्येन मे द्यौश्च वसुन्धरा च; तथैवाग्निर्ज्वलते मानुषेषु 024c न मे वृथा व्याहृतमेव वाक्यं; सत्यं हि सन्तः प्रतिपूजयन्ति 024e सर्वे च देवा मुनयश्च लोकाः; सत्येन पूज्या इति मे मनोगतम् 025a यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् 025c अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम् 026 वैशम्पायन उवाच 026a एवं राजा स महात्मा ह्यतीव; स्वैर्दौहित्रैस्तारितोऽमित्रसाहः 026c त्यक्त्वा महीं परमोदारकर्मा; स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम्