अष्टक उवाच 001
कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम् 001a
उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव 001c
ययातिरुवाच 002
अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः 002a
ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः 002c
अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् 003a
तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः 003c
यद्वै नृशंसं तदपथ्यमाहुर्यः सेवते धर्ममनर्थबुद्धिः 004a
अस्वोऽप्यनीशश्च तथैव राजंस्तदार्जवं स समाधिस्तदार्यम् 004c
अष्टक उवाच 005
केनासि दूतः प्रहितोऽद्य राजन्युवा स्रग्वी दर्शनीयः सुवर्चाः 005a
कुत आगतः कतरस्यां दिशि त्वमुताहो स्वित्पार्थिवं स्थानमस्ति 005c
ययातिरुवाच 006
इमं भौमं नरकं क्षीणपुण्यः; प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः 006a
उक्त्वाहं वः प्रपतिष्याम्यनन्तरं; त्वरन्ति मां ब्राह्मणा लोकपालाः 006c
सतां सकाशे तु वृतः प्रपातस्ते सङ्गता गुणवन्तश्च सर्वे 007a
शक्राच्च लब्धो हि वरो मयैष; पतिष्यता भूमितले नरेन्द्र 007c
अष्टक उवाच 008
पृच्छामि त्वां मा प्रपत प्रपातं; यदि लोकाः पार्थिव सन्ति मेऽत्र 008a
यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये 008c
ययातिरुवाच 009
यावत्पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश्च 009a
तावल्लोका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्रसिंह 009c
अष्टक उवाच 010
तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोका दिवि राजेन्द्र सन्ति 010a
यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रममित्रसाह 010c
ययातिरुवाच 011
नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च; प्रतिग्रहे वर्तते राजमुख्य 011a
यथा प्रदेयं सततं द्विजेभ्यस्तथाददं पूर्वमहं नरेन्द्र 011c
नाब्राह्मणः कृपणो जातु जीवेद्या चापि स्याद्ब्राह्मणी वीरपत्नी 012a
सोऽहं यदैवाकृतपूर्वं चरेयं; विवित्समानः किमु तत्र साधु 012c
प्रतर्दन उवाच 013
पृच्छामि त्वां स्पृहणीयरूप; प्रतर्दनोऽहं यदि मे सन्ति लोकाः 013a
यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये 013c
ययातिरुवाच 014
सन्ति लोका बहवस्ते नरेन्द्र; अप्येकैकः सप्त सप्ताप्यहानि 014a
मधुच्युतो घृतपृक्ता विशोकास्ते नान्तवन्तः प्रतिपालयन्ति 014c
प्रतर्दन उवाच 015
तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोकास्तव ते वै भवन्तु 015a
यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रमपेतमोहः 015c
ययातिरुवाच 016
न तुल्यतेजाः सुकृतं कामयेत; योगक्षेमं पार्थिव पार्थिवः सन् 016a
दैवादेशादापदं प्राप्य विद्वांश्चरेन्नृशंसं न हि जातु राजा 016c
धर्म्यं मार्गं चेतयानो यशस्यं; कुर्यान्नृपो धर्ममवेक्षमाणः 017a
न मद्विधो धर्मबुद्धिः प्रजानन्कुर्यादेवं कृपणं मां यथात्थ 017c
कुर्यामपूर्वं न कृतं यदन्यैर्विवित्समानः किमु तत्र साधु 018a
ब्रुवाणमेवं नृपतिं ययातिं; नृपोत्तमो वसुमनाब्रवीत्तम् 018c