अष्टक उवाच 001
चरन्गृहस्थः कथमेति देवान्कथं भिक्षुः कथमाचार्यकर्मा 001a
वानप्रस्थः सत्पथे सन्निविष्टो; बहून्यस्मिन्सम्प्रति वेदयन्ति 001c
ययातिरुवाच 002
आहूताध्यायी गुरुकर्मस्वचोद्यः; पूर्वोत्थायी चरमं चोपशायी 002a
मृदुर्दान्तो धृतिमानप्रमत्तः; स्वाध्यायशीलः सिध्यति ब्रह्मचारी 002c
धर्मागतं प्राप्य धनं यजेत; दद्यात्सदैवातिथीन्भोजयेच्च 003a
अनाददानश्च परैरदत्तं; सैषा गृहस्थोपनिषत्पुराणी 003c
स्ववीर्यजीवी वृजिनान्निवृत्तो; दाता परेभ्यो न परोपतापी 004a
तादृङ्मुनिः सिद्धिमुपैति मुख्यां; वसन्नरण्ये नियताहारचेष्टः 004c
अशिल्पजीवी नगृहश्च नित्यं; जितेन्द्रियः सर्वतो विप्रमुक्तः 005a
अनोकसारी लघुरल्पचारश्चरन्देशानेकचरः स भिक्षुः 005c
रात्र्या यया चाभिजिताश्च लोका; भवन्ति कामा विजिताः सुखाश्च 006a
तामेव रात्रिं प्रयतेत विद्वानरण्यसंस्थो भवितुं यतात्मा 006c
दशैव पूर्वान्दश चापरांस्तु; ज्ञातीन्सहात्मानमथैकविंशम् 007a
अरण्यवासी सुकृते दधाति; विमुच्यारण्ये स्वशरीरधातून् 007c
अष्टक उवाच 008
कति स्विदेव मुनयो मौनानि कति चाप्युत 008a
भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् 008c
ययातिरुवाच 009
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः 009a
ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप 009c
अष्टक उवाच 010
कथं स्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः 010a
ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः 010c
ययातिरुवाच 011
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् 011a
तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः 011c
अनग्निरनिकेतश्च अगोत्रचरणो मुनिः 012a
कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् 012c
यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम् 013a
तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः 013c
यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः 014a
आतिष्ठेत मुनिर्मौनं स लोके सिद्धिमाप्नुयात् 014c
धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम् 015a
असितं सितकर्मस्थं कस्तं नार्चितुमर्हति 015c
तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः 016a
यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः 016c
अथ लोकमिमं जित्वा लोकं विजयते परम् 016e
आस्येन तु यदाहारं गोवन्मृगयते मुनिः 017a
अथास्य लोकः पूर्वो यः सोऽमृतत्वाय कल्पते 017c