अष्टक उवाच 001
यदावसो नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् 001a
किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधामन्वपद्यः 001c
ययातिरुवाच 002
ज्ञातिः सुहृत्स्वजनो यो यथेह; क्षीणे वित्ते त्यज्यते मानवैर्हि 002a
तथा तत्र क्षीणपुण्यं मनुष्यं; त्यजन्ति सद्यः सेश्वरा देवसङ्घाः 002c
अष्टक उवाच 003
कथं तस्मिन्क्षीणपुण्या भवन्ति; सम्मुह्यते मेऽत्र मनोऽतिमात्रम् 003a
किंविशिष्टाः कस्य धामोपयान्ति; तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे 003c
ययातिरुवाच 004
इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे 004a
ते कङ्कगोमायुबलाशनार्थं; क्षीणा विवृद्धिं बहुधा व्रजन्ति 004c
तस्मादेतद्वर्जनीयं नरेण; दुष्टं लोके गर्हणीयं च कर्म 005a
आख्यातं ते पार्थिव सर्वमेतद्भूयश्चेदानीं वद किं ते वदामि 005c
अष्टक उवाच 006
यदा तु तान्वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतङ्गाः 006a
कथं भवन्ति कथमाभवन्ति; न भौममन्यं नरकं शृणोमि 006c
ययातिरुवाच 007
ऊर्ध्वं देहात्कर्मणो जृम्भमाणाद्व्यक्तं पृथिव्यामनुसञ्चरन्ति 007a
इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगाननेकान् 007c
षष्टिं सहस्राणि पतन्ति व्योम्नि; तथा अशीतिं परिवत्सराणि 008a
तान्वै तुदन्ति प्रपततः प्रपातं; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः 008c
अष्टक उवाच 009
यदेनसस्ते पततस्तुदन्ति; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः 009a
कथं भवन्ति कथमाभवन्ति; कथम्भूता गर्भभूता भवन्ति 009c
ययातिरुवाच 0100
अस्रं रेतः पुष्पफलानुपृक्तमन्वेति तद्वै पुरुषेण सृष्टम् 010a
स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र 010c
वनस्पतींश्चौषधीश्चाविशन्ति; अपो वायुं पृथिवीं चान्तरिक्षम् 011a
चतुष्पदं द्विपदं चापि सर्वमेवम्भूता गर्भभूता भवन्ति 011c
अष्टक उवाच 012
अन्यद्वपुर्विदधातीह गर्भ; उताहो स्वित्स्वेन कामेन याति 012a
आपद्यमानो नरयोनिमेतामाचक्ष्व मे संशयात्प्रब्रवीमि 012c
शरीरदेहादिसमुच्छ्रयं च; चक्षुःश्रोत्रे लभते केन सञ्ज्ञाम् 013a
एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः; क्षेत्रज्ञं त्वां तात मन्याम सर्वे 013c
ययातिरुवाच 014
वायुः समुत्कर्षति गर्भयोनिमृतौ रेतः पुष्परसानुपृक्तम् 014a
स तत्र तन्मात्रकृताधिकारः; क्रमेण संवर्धयतीह गर्भम् 014c
स जायमानो विगृहीतगात्रः; षड्ज्ञाननिष्ठायतनो मनुष्यः 015a
स श्रोत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च 015c
घ्राणेन गन्धं जिह्वयाथो रसं च; त्वचा स्पर्शं मनसा वेद भावम् 016a
इत्यष्टकेहोपचितिं च विद्धि; महात्मनः प्राणभृतः शरीरे 016c
अष्टक उवाच 017
यः संस्थितः पुरुषो दह्यते वा; निखन्यते वापि निघृष्यते वा 017a
अभावभूतः स विनाशमेत्य; केनात्मानं चेतयते पुरस्तात् 017c
ययातिरुवाच 018
हित्वा सोऽसून्सुप्तवन्निष्टनित्वा; पुरोधाय सुकृतं दुष्कृतं च 018a
अन्यां योनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह 018c
पुण्यां योनिं पुण्यकृतो व्रजन्ति; पापां योनिं पापकृतो व्रजन्ति 019a
कीटाः पतङ्गाश्च भवन्ति पापा; न मे विवक्षास्ति महानुभाव 019c
चतुष्पदा द्विपदाः षट्पदाश्च; तथाभूता गर्भभूता भवन्ति 020a
आख्यातमेतन्निखिलेन सर्वं; भूयस्तु किं पृच्छसि राजसिंह 020c
अष्टक उवाच 021
किं स्वित्कृत्वा लभते तात लोकान्मर्त्यः श्रेष्ठांस्तपसा विद्यया वा 021a
तन्मे पृष्टः शंस सर्वं यथावच्छुभाँल्लोकान्येन गच्छेत्क्रमेण 021c
ययातिरुवाच 022
तपश्च दानं च शमो दमश्च; ह्रीरार्जवं सर्वभूतानुकम्पा 022a
नश्यन्ति मानेन तमोऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः 022c
अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् 023a
तस्यान्तवन्तश्च भवन्ति लोका; न चास्य तद्ब्रह्म फलं ददाति 023c
चत्वारि कर्माण्यभयङ्कराणि; भयं प्रयच्छन्त्ययथाकृतानि 024a
मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः 024c
न मान्यमानो मुदमाददीत; न सन्तापं प्राप्नुयाच्चावमानात् 025a
सन्तः सतः पूजयन्तीह लोके; नासाधवः साधुबुद्धिं लभन्ते 025c
इति दद्यादिति यजेदित्यधीयीत मे व्रतम् 026a
इत्यस्मिन्नभयान्याहुस्तानि वर्ज्यानि नित्यशः 026c
येनाश्रयं वेदयन्ते पुराणं; मनीषिणो मानसमानभक्तम् 027a
तन्निःश्रेयस्तैजसं रूपमेत्य; परां शान्तिं प्राप्नुयुः प्रेत्य चेह 027c